________________
श्रीजिनभद्रसूरिरचिता
एतस्याः परमन्यदेव किमपि त्रैलोक्यतोऽप्यद्भुतं
रूपं यस्य निरीक्षणेन परमानन्दोऽयमुज्जृम्भते ॥९१॥
ततो नूनमस्याः प्रसरन्निष्प्रतिमल्लधम्मिल्लमल्लपरा भूतनिजकलापतया कैलापिना प्रभुरकारि
तरकारिः । नूनमस्याः सविभ्रमभ्रूचापयुगेनैककुसुमकार्मुकाभिरामोऽपि त्रिभुवनजिगीषुः शैम्बरारिः, नूनमस्या नयनारविन्दप्रतिच्छन्दारविन्दयुगसुभगतया कॅमलयाऽपि पतिरलभ्यत मुरारिः । नूनमस्याः समुन्नत सैरलना सावंश रामणीयका नुमोदनया कयाचिदुन्नतिमन्तः सरलाश्च सन्तः । नूनमस्या दशनौष्ठगरिष्ठप्रभाप्राग्भारानुकारसारर्मुक्ता विद्रुमाधारतया क्षीरनीरधिरपि रत्नाकरः समुद्रः, नूनमस्या वंदनसोदरसुधाकरकलाकलितभालतया महेश्वर एव तथाविधोऽपि रुद्रः। नूनमस्याः कर्णपालिकालङ्कारकुण्डलाकारतया विधुरविग्रहाबपि जगदुपरि संवृत्तौ रजनिपतिदिनपती । नूनमस्याः कैण्ठकन्दलरेखाङ्कपतितदासतया शब्दगाम्भीर्यतोऽनन्यः समजायत पाञ्चजन्यः । नूनमस्या बाहुलता-पताकाभ्यामनुमीयते नीकनागपुरतोऽप्येष मर्त्यलोको धन्यतयाऽधिकंमन्यः । नूनमस्याः पौणिपल्लवलावण्यलवकलित किशलययोगादशोकः स्फुटमशोकः ।
[ द्वितीयः
१. मयूरेण ।
२. तारकाः मयूरपिच्छेषु ये चन्द्रकरूपाणि चिह्नानि ते, तारक एव, प्रभुः- समर्थः अरिरूपः अकारि । धम्मिल्लमल्लपराभवाय कलापिना समर्थः अरिरूपः तारकगणो व्यधायि इति भावः । ३. कामदेवः ।
४. कमलायाः लक्ष्म्याः नेत्राणि मदनरेखानयनारविन्दसमानानि अत एव सा मुरारिणा स्वीकृता इत्येवं मदनरे खानयनसादृश्यसामर्थ्येनैव कमलया मुरारिः पतिः अलभ्यत इति आशयः । ५. मदनरेखायाः सरलायाः उन्नतायाश्च नासायाः रामणीयकस्य सौन्दर्यस्य अनुमोदनया अर्थात् तत्सौन्दर्यानुमोदकाः अतः सन्तः - सज्जनाः सरलाः उन्नताश्च ।
६. अस्याः मदनरेखायाः दशनाः मुक्तारूपाः, ओष्ठाश्च विद्रुमरूपाः । तद्दशनसमानमुक्तानां तदोष्ठसमान विद्रुमाणां च आधारः समुद्रः स च क्षीरनीरधिरपि अतः एव कारणात् 'रत्नाकर - विश्रुतः । पाठान्तरे तु क्षारनीरधिरपि सागरः ' रत्नाकर 'नाम्ना प्रथितः ।
७. वदनसोदरसुधाकर कलाकलितम् अस्याः भालम्, एत एव सा सौम्यगुणयुक्ता, परन्तु महेश्वरस्तु अस्याः सुधाकर कलाया अपहारकत्वेन सुधाकरकला कलितोऽपि रुद्रः विशेषभयङ्करः ।
८. मदनरेखायाः कुण्डले कर्णपालिकालंकाररूपे, एतौ रजनिपति - दिनपती तत्कुण्डत्वाकारानुकारिणौ, अत एव तौ विधुरविग्रहौ - विग्रहविकलौ - शरीरहीनौ भूत्वा जगदुपरि संवृत्तौ अर्थाद् ऊर्ध्वमेव प्रस्थितवन्तौ ।
९. पाञ्चजन्यः - शङ्खः मदनरेखायाः कण्ठकन्दलरेखाङ्कस्य पतितो दासः अत एव शब्दगाम्भीर्यतः अनन्यः संजातः ।
१०. नाकपुरं - स्वर्गपुरम्, नागपुरं - नागलोकपुरम् । अस्या बाहुलतारूपपताकाभ्यां ताभ्यामपि द्वाभ्यां पुराभ्यां मर्त्यलोक एषः स्वम् अधिकं धन्यं मन्यते ।
११. अशोको नाम वृक्षः यथार्थतया अशोकः यतः अस्य वृक्षस्य पल्लवेषु अस्याः पाणिपल्लवयोः लावण्यस्य लवो विद्यते ।
1 षुः संवरा डे । 2 'दिनमणी डे । 3 रेखां कषति तद्वास डे । 4 °तोऽमान्यः डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org