SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः] मदनरेखा-आख्यायिका विभूषणाऽपि, न बौद्धत्यागोपेताऽपि, प्रकृत्याऽऽत्मादितत्त्वविचारनिष्ठाऽपि, जिनप्रवचनवासितान्तःकरणा, तस्यां च नियतितया महेन्द्रजालिकविद्ययेव निजयैव दृष्टया मुषितयथावस्थितवस्तुतत्त्वप्रकाशकविवेकरत्नस्तां मदनरेखामेव मनसि कृत्वा चिन्तयांचकार । दृश्यन्ते वनिताशतानि भुवने चेतोऽपहारीण्यहो ! प्रीतिं यानि दिशन्ति शान्तमनसां नूनं मुनीनामपि । वैशेषिकमतिका २। न्यायोद्योतकरौ ग्रन्थौ तावेव मण्यौ विभूषणमाभरणं यस्याः सा नैयायिकमतिका ३। न नैव बौद्धत्यागोपेता किन्तु तनुमतिका ४। सत्त्व-रजस्तमसां साम्यावस्था प्रकृतिः, आत्मा तु पञ्चविंशतितमं तत्त्वम् आदिशब्दात् त्रयोविंशतितत्त्वग्रहणम् इति पञ्चविंशतितत्त्वविचारनिष्ठा सांख्यमतिका ५। एवंभूताऽपि जिनप्रवचनवासितान्तःकरणा इति विरोधः । तत्परिहारस्तु या मदनरेखा चारुणा शोभनेनाकारेण अधिका १० षट्पदानां-भ्रमराणाम् अर्थसाधकं प्रयोजननिष्पादकं मुखारविन्दं यस्याः सा तथा २। न्यायमेवोद्योतयन्ति न्यायोद्योतकास्ता एव रमण्यौ विभूषणं यस्याः सा तथा सुशीलस्त्रीभिः कृतमङ्गेत्यर्थः ३। नवं नूतनं यद् औद्धत्यम् अहंकारस्तल्लक्षणादागसोऽपराधादपेता अपगता ४। प्रकृत्या स्वभावेन आत्मादीनां जीवाजीवानां जीवाजीवालव-संवरनिर्जरा-बन्ध-मोक्षाणां तत्त्वानां विचारे निष्ठा यस्याः सा तथा ५ ।] चार्वाकाराधिका अपि षट्पदार्थसाधकमुखारविन्दा अपि या सती चार्वाकस्य आराधिका सती कथं षट्पदार्थसाधकमुखारविन्दा ? या चार्वाकाराधिका स्यात् सा तु केवलं पञ्चभूतसाधिका स्यात्, न षट्पदार्थसाधनपरा इति विरोधः, तत्सूचनार्थ च 'अपि'शब्दः । चारुः आकारः-शोभन: आकारः तेन अधिका इति चार्वाकाराधिका इति । तथा षट्पदः-भ्रमरः तदर्थसाधकं तत्प्रयोजनसाधकं मुखारविन्दं यस्याः सा इति विरोधपरिहारा या षटपदार्थसाधिका सा कथं न्यायोद्योतकररूपो मणिः तत्र विभूषणरूपा न्यायोद्योतकरमणीविभूषणा ? वैशेषिको हि पदार्थसाधनं करोति न्यायोद्योतकरस्तु गौतमानुयायी षोडशपदार्थसाधनं करोति इति विरोधः, परिहारस्तु न्यायस्य-न्यायमार्गस्य या उद्द्योतका रमणी सा न्य द्योतकरमणी तासु विभूषणा अर्थात् न्यायमार्गानुसारिजीविता । या च न्यायोद्योतकरानुयायिनी सा अवश्यं बौद्धत्यागोपेता (त्याग + उपेता) बौद्धदर्शनत्यामयुक्ता भवेत्, इयं तु न्यायोद्योतकरमणीविभूषणा अपि न बौद्धत्यागोपेता इति विरोधः । परिहारस्तु नवम्-नवीनम् , औद्धत्यम्-उच्छृङ्खलता तद्रूपं यद् आगः-अपराधः, तेन अपेता रहित्य नवौद्धत्यागोपेता इति । अत्र विरोधप्रदर्शने व-बयोः ऐक्येन 'न बौद्धः' इति शेयम् , ननिषेधे, 'बौद्धत्याग+ उपेता' इति पदविभागो बोध्यः। विरोधपरिहारपक्षे नवीनार्थवाची नवशब्दो ज्ञेयः । नव + औद्धत्य० 'नवौद्धत्य' इति संधिः शेयः, अत्र 'ब' न बोध्यः किन्तु 'ब' बोध्यः । औद्धत्य + आगस् + अपेता इति औद्धत्यागोपेता । नव + औद्धत्याऽऽगोऽपेता नवौद्धत्यागोऽपेता अर्थात् नवीनस्य औद्धत्यस्य यः अपराधः तेन अपेता रहिता-मर्यादावती स्वाचारपालनपरायणा गर्वरहिता च इति भावः ।। या बौद्धत्यागोपेता-बौद्धदर्शनपरिहारयुता न स्यात् सा कथं प्रकृत्यात्मादितत्त्वविचारस्तु सांख्यानां, न तु बौद्धानाम् इति विरोधः । परिहारस्तु या जिनप्रवचनवासितान्तःकरणा अतः प्रकृतिं जैनविचारप्रसिद्धां कर्मप्रकृतिम् , तथा तत्प्रसिद्धमेव आत्मतत्त्वादिकम् , तस्य विचारनिष्ठा भवत्येव इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy