SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभद्रसूरिरचिता [द्वितीयः चक्रे चौपगुणारोपात केसोद्वेगं प्रियंवदा । तेन यौँ सत्यभामेव श्रीदामोदरसंगता ॥८५।। न च राकेन्दुना लेशोऽप्यापि यस्या मुखश्रियः । सर्वस्वापहृतिर्यस्य संतीनेऽन्जं तु कुत्र तत् ? ॥८६॥ संकलोऽपि शीलकलयो विनिर्जितः खलु कलानिधिर्यस्याः । कथमन्यथा स दुर्गेशमौलिशिखरे समारूढः ॥८७॥ शीलं कुलेन कुलमपि शीलेन स्पर्द्धतेतरां यस्याः । तेनेव न्यूनतया कलितं कुत्रापि नैकमपि ॥८८॥ प्रियो वा धर्मो वा सुविहितविधानेन गुरुभि___ य एवाऽऽदौ दत्तः स खलु हृदि यस्याः स्म रमते । बहिर्व्यापारोऽपि प्रतिदिनमुदारेण मनसा यया चक्रे प्रायस्तदनुगत एव प्रतिपदम् ॥८९॥ चित्रा भोगपरम्परा निजपतेस्तोषाय नैवात्मन स्त्यागोऽप्यात्ममुदे सदैव न पुनस्तस्यै यशःसिद्धये । धर्मायैव च जीवितं न विषयोत्साहाय धर्मः पुन र्मोक्षायैव विवेकनिर्मलधियो यस्याः प्रशस्यावधेः ॥९०॥ या चार्वाकाराधिकाऽपि, षट्पदार्थसाधकमुखारविन्दाऽपि, न्यायोद्योतकरमणी१. चापगुणस्य आरोपात् चापो धनुः, गुणः प्रत्यञ्चा । सतीपक्षे च अपगुणारोपात् । २. कंसस्य उद्वेगम् अथवा कं सोद्वेगम् इत्यपि पदविभागः । ३. या मदनरेखा सत्यभामेव श्रीदामोदरसंगता यथा सत्यभामा श्रीदामोदरेण संगता तिष्ठति तथा इयं मदनरेखा श्रीदामयुक्तेन उदरेण संगता । ४. सर्वस्यापहारः अतः तत् तु कुत्र ? इति आशयः । ५. सतीने ! इति संबोधनम् । सतीषु इनरूपा स्वामिनी शिरोमणिः सती + इना= सतीना, अस्य संबोधनम् हे सतीने !-हे सतीशिरोमणिरूपे !। ६. यस्याः शीलकलया सकलोऽपि कलानिधिविनिर्जितः, अन्यथा स कलानिधिः-चन्द्रः दुर्गेशमौलिशिखरे दुर्गेशः-महादेवः-हरः, तस्य मौलौ-शिखरे-अग्रभागे कथं समारूढः १ अन्योऽपि विनिर्जितः पुरुष दुर्गेशस्य-कोटस्वामिनः-प्राकाररक्षकस्य शरणे गच्छति तथा अयमपि दुर्गेशं शरणं गृहीतवान् । प्रतौ 'पिनिर्जितः ' पाठः, स अत्र 'विनिर्जितः' संशोधितः । ७. [या मदनरेखा चार्वाकान् नास्तिकान् आराधनोति, चार्वाकाराधिका-नास्तिकमतिका १। 'द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायरूपाणां पण्णां पदार्थानां साधकं मुखारविन्दं यस्याः सा ____ 1 °या नि° डे । 2 यथा च डे। 3 प्रतिदिनम् डे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy