SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ द्वितीय उच्छ्वासः। अन्यदा च, प्रासादोपरिभूमिष्ठो वीक्षमाणः पुरश्रियम् । गवाक्षे युवराजस्य दृष्टिं पातयति स्म सः ॥८२॥ ततश्च सुलभविकारतया प्रमादप्रसङ्गमदिरायाः, निष्प्रतीकारप्रसरतया विषविषमविषयमूढतायाः, निरङ्कुशतया चक्षुरादिकरणकरीन्द्रप्रसराणां, दुर्निवारतया चपलतरान्तःकरणकेशरिकिशोरस्य, तथाविधानर्थनिमित्ततया विभवश्चर्ययौवनमदस्य, समासन्नतया दुर्गतिगतवर्तविषमपातस्य, भवितव्यतया तथाविधविचित्रविधिविपाकस्य, सदाचारचातुरीचमत्कृतचतुर चेतसोऽपि, निरस्तदुष्कर्ममर्मधर्मकर्मनिर्माणवेधसोऽपि, निरारेकविवेकसुधासेकातिरेकपल्लवितविशुद्धबुद्धिकाननस्यापि, त्रिवर्गसंसर्गसारविचारविदितसंसारविपाकस्यापि, हेयोपादेयपदार्थसार्थसमर्थनसमर्थनिर्णयवचितमनसोऽपि, विशालनयनरमणीगणप्रशान्तसमुद्दामकामतमसोऽपि तस्य तत्र गवाक्षे त्रिभुवननयनचकोरचन्द्रिकायां खरकरकिरणसंपर्ककर्कशोपतापभीतायामिव सकुच्य समासीनायां मदनरेखाभिधानायां सौन्दर्यसुन्दयों लोचनयुगं सैमगस्त । सैत्यात्मकं मनो यस्या यस्याः सत्यात्मकं वचः । सँतीख्याताऽऽकृतिर्यस्यास्तेन सर्वाङ्गसुन्दरी ॥८३॥ पँसारितकरौ नित्यं सूर्याचन्द्रमसौ यतः । इतीव या बहिः क्वापि प्रासादान्न विनिर्ययौ ॥८४॥ १. “केशरी दन्त्य-तालव्यः" (- शब्दरत्ना० कां० ४, श्लो० ३१९) २. कर्मविपाकस्य-कर्मपरिणामस्य । ३. निश्शङ्को विवेकः । आरेका-शङ्का । ४. कवचितं-कवचयुक्तम् । कवचं-तनुत्रं युद्धे शरीरसंरक्षणसाधनम् । ५. 'सम् 'पूर्वकाद् ‘गम्'धातोः आत्मनेपदे अद्यतनीनभूतकाले तृतीयपुरुषैकवचने रूपम् । 'समगत' इत्यपि जायते । ६. सत्य + आत्मकम् - सत्यरूपम् अथवा सती एव आत्मा स्वरूपं यस्य तत् सती+ आत्मकम् -सत्यात्मकम् । ७. यस्याः आकृतिः सतीशब्देन ख्याता प्रसिद्धा । ८. ० करौ-किरणौ हस्तौ वा । सतीस्पर्शविधानाय करौ प्रसारितौ । ____ 1 °यविमूढ ल । 2 मित्तया डे । 3 मसमधर्मधर्मकर्म डे। 4 °पि सत् वर्ग० क, °पि सद्वर्ग ल । 5 र्या तस्यां लो क । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy