________________
श्रीजिनभद्रसूरिरचिता
[प्रथमः इव, महाभ्युदयमया इव, पुप्यनिचयमया इव, त्रि-चतुरा इव भूयांसोऽपि यान्ति स्म वासराः ।
मुदिमुदितमना मनांसि नित्यं
नयति स पौरजनस्य पश्यतोऽपि । थियमिव कुमुदानि शीतरश्मि- .
दलिततमोविकृतिः करैरतीत्रैः ॥ ८१॥ इति श्रीजिनभद्रसूरिविरचितायां मदनरेखाऽऽख्यायिकायां श्रीमन्नमिचरित्रापराभिधायां मुदङ्कायां प्रथम उच्छ्वासः
समाप्तः ॥
मध्यलोकभूमिरिव । अत्र नदीनदाः तथा अनराः पशु-पक्षिणः तैः मध्यभूमी रमणीया कृता । अथवा 'अ'पदेन सानूनि गिरितटभागाः, कूर्मा वा ग्राह्याः, तैः, नरैश्च मध्यभूमी रमणीया इत्यपि भावो बोध्यः । एकाक्षरकोशे 'अ' वर्णस्य अनेके अर्थाः प्रतिपादिताः अत एव अत्र 'अ'पदेन सानूनि कूर्मा वा गृहीताः ।
- १. भूयांसोऽपि वासराः दिवसाः त्रि-चतुरो दिवसा इव यान्ति स्म अर्थात् दीर्घोऽपि काल: मुखमयत्वेन अल्पः प्रतिभासते इति आशयः ।
२. [ नवरं दलिततमोविकृतिः हतक्रोधविकारः । करैः सजदेयभागैः, अतीनैः अदुःखदैः ।
स उदितमना राजा पश्यतोऽपि पौरजनस्य मनांसि नित्यं मुदिं हर्ष नयति । यथा शीतरश्मिः दलिततमोविकृतिः नाशितान्धकारविकारः, कुमुदानि अतीत्रैः शीतलैः करैः किरणैः, श्रियं नयति तथा अयं राजा उदितमनाः दलिततमोविकृतिः नाशिततमोगुणविकारः अतीत्रैः मृदुभिः, करैः राजदेयः भागः, पौरजनस्य मनांसि मुदिं हर्ष नयति । पश्यतोऽपि करदानपीडां पश्यतोऽपि पौरजनस्य मनांसि मुदिं हर्ष नयति । पौरजनो हि करदानदुःखं पश्यन् अपि अनुभवन्नपि मनसा मुदं समनुभवति इति नृपस्य करग्राहकस्यापि राज्यकरणपद्धतिकोशलम् ।
॥ इति प्रथम उच्छ्वासः समाप्तः ॥
1 रा अपि भू° डे। 2 पि वासरा यान्ति स्म डे । 3 स्म वाराः डे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org