________________
का पृ०१००, वि०पृ०५३३ ]
न्यायमञ्जरीग्रन्थिमङ्गः
शब्दोपग्राह्यतयेति' । शब्द उपग्राह्यः स्वीकर्तव्योऽस्य तदाकारस्यात्मनि व्यवहारावस्थायां प्रकाशनात् । शब्दे ततो(दु)पग्राह्यत्वेन विवृतस्य तेन प्रतिपाद(पाद्य)तयाऽऽलम्बनात् । [शब्दोपग्राहितया चेति ] शब्दमुपगृह्णाति तदाकारमात्मनि स्वीकरोति। शब्दः उपग्राही वाचकत्वेन वाऽस्येति ।
अविद्योपाधिदर्शितविचित्रभेदमिति । तदाह-- यः सर्वपरिकल्पनानामभावेऽप्यनव(प्यव)स्थितः । [तांगमानुमानेन वहुघा परिकल्पितः ॥१॥] अभितो भेद-संस! भावाभावौ क्रमाक्रमौ । सत्यानृते च विश्वाल्मा प्रविशे(वे)कात् प्रकाशते ॥२॥ अन्तर्यामी स भूतानामाराद् दूरे च दृश्यते । सोऽत्यन्तमुक्तो मोक्षाय मुमुक्षुभिरुपास्यते ॥३॥ प्रकृत(ति)त्वमपि प्राप्तान् विकारानाकरोति यः । "[व] सुधामेव धर्मान्ते महतो मेघसम्प्लवात् ॥४॥ तस्यैकमपि चैतन्यं बहुधा प्रविभज्यते । अङ्गाराङ्कितमुत्पाते वारिराशेरिवोदकम् ॥६॥ तस्मादाकृतिगोत्रस्थाद् व्यक्तिग्रामा विकारिणः । मारुतादिव जायन्ते वृष्टिमन्तो बलाहकाः ॥७॥ यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । सङ्कीर्णमिव मात्राभिश्चित्राभिः प्रतिपद्यते ।।८।। तथेदममलं ब्रह्म निर्विकारमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रतीयते ॥९॥ इत्यादि ।
वाच्यतद्बुद्धिवाचिनामिति । वाच्यं च तद्बुद्धिश्च वाची चेति वाच्यतबुद्धिवाचिनः । अस्य पूर्वमर्धम्शब्देनैव हि निर्देशो गृहीतेऽर्थेऽवकल्पते ।
[श्लोकवा०, प्र०सू०, १८२ ] इति १-२ वाक्यप०स्वो० १.१ । ३ "माभासे' मुद्रितहरिवृतौ । ४ 'व्यतीतो' मुद्रितहरिवृत्तौ। ५ 'ऋतुधामेव' मुद्रितहरिवृत्तौ। ६ 'ग्रीष्मान्ते' मुद्रितहरिवृत्तौ। ७ 'अभिमन्यते' मुद्रितहरिवृत्तौ । ८ 'अमृतम्' मुद्रितहरिवृत्तौ । ९ 'विवर्तते' मुद्रितहरिवृत्तौ । १० एते सर्वेऽपि श्लोका वाक्यपदीयस्वोपज्ञवृत्तौ (१.१) उद्धृताः। ६, ८, ९ श्लोकाः बृहदारण्यकभाष्यवातिके ( ३.५. ४५, ४३, ४४) सन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org