________________
२२०
भट्टश्रीचक्रधरप्रणीतः [का०पृ०९८, वि०पृ०५३१ सङ्ख्यैकान्तासिद्धिरिति' । अथेमे सङ्ख्यैकान्ताः - सर्वमेकं सदविशेषात्, सर्व द्वैतं नित्यानित्यभेदात्, सर्व त्रिधा ज्ञाता ज्ञेयम् ज्ञानमिति, सर्व चतुर्धा प्रमाणं प्रमाता प्रमेय प्रमितिरिति । एवं यथासम्भवमन्येऽपि । ताम(न)नेन सूत्रेण [ न्या०सू० ४. १. ४१ ] निराकरोति ।
अनादिनिधनमिति यद् ब्रह्मैवंरूपं तस्य प्राप्त्युपायोऽनुकारश्च वेद इति सम्बन्धः । तथा चैतच्छलोकपाठोत्तरकालं कतिपयश्लोकव्यवधानेन
प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः । एकोऽप्यनेकधर्मेव समाम्नातः पृथक् पृथक् ॥ [वाक्यपदीय, १. ५ ]
इति पठितम् । तत्रानादिनिधनं ब्रह्मेति स्वयं व्याख्यातम्। प्रत्यक्चैतन्यात्मना विवृतस्याकारहेतुत्वादक्षरमित्युक्तम् । तच्च तस्यापारमार्थिक रूपमद्वैतावस्था या]मभावात, एवमर्थाकारोऽपि तस्यामवस्थायां नास्ति । तदेवाह-विवर्ततेऽर्थभावनेति । ननु यथा प्रधानं साङ्ख्यदृष्टया तत्तदाकारपरिग्रहाद् विपरिणामि तथा ततोऽर्थोत्पत्तेविपरिणामित्वं प्राप्तमित्याह--प्रक्रिया जगतो यत इति । उत्पत्तेरवास्तवत्वात् प्रक्रियामानं संव्यवहारमात्रमेव ततो जगतो न पुनः परमार्थतः किंचिदुत्पद्यते । माययैव व्यवहारपदवीमवतरन्तोऽमी जगदाख्या विकाराः, न तु ब्रह्मणा जन्यन्ते, विशुद्धादविशुद्धोत्पत्त्ययोगात् । विवर्तलक्षणं चाह हरिः .. "एकस्य तत्वादप्रच्युतस्य भेदानुकारेणासत्यविभक्तान्यरूपोपग्राहिता विवर्तः, स्वप्नविषयप्रतिभासवत्" इति [ हरिवृत्ति, वाक्यपदीय, १. १. १] । एकस्यान्यरूपस्वीकारं स्वरूपविनाशेन प्रतिपद्यन्ते प्रतीत्यसमुत्पादवादिन इति तद्व्यवच्छेदार्थ तत्त्वादप्रच्युतस्येति विशेषणम् । एवमपि कारणस्य स्वात्मसम[38]वायि यत् काये तस्यापि परिग्रहः स्यादिति विभक्तग्रहणम् । विभक्तस्य नानाभूतस्येत्यर्थः । तथापि तत्त्वादप्रच्युतस्य धर्मान्तरतिरोधानाविर्भावाभ्यां विभक्तान्यरूपो यः परिणामस्तस्यापि प्रसङ्ग इत्यस्य(इत्यसत्य)ग्रहणम् । एवमपि तत्त्वतस्तत्त्वमधिजहतोऽन्यरूपेण वितथत्वात् समारोपवशेन पररूपावेशाद् गोत्वस्येव वाहीकार्थोपग्रह इति तद्व्यवच्छेदार्थमाह --भेदानुकारेणेति ।
१ न्यायसु० ४.१.४१ । २ तच्चाक्षरनिमित्तत्वाद् अक्षरमित्युच्यते। प्रत्यक्चैतन्येऽन्तःसंनिवेशितस्य परसंबोधनार्था व्यक्तिरभिष्यन्दते । हरिवृत्ति, वाक्यप० १.१ । अक्षरमिति अकाराद्यक्षरस्य निमित्तत्वात् । तत्त्वसं० १२८ (पृ०६७)। अक्षरं चाकाराद्यक्षरस्य निमित्तत्वात्। स्याद्वादरत्ना०पृ० ९० । ३ सौगताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org