________________
का पृ०५६,वि पृ०४८५] न्यायमञ्जरीग्रन्थिमङ्गः
२०१ व्यञ्जकानीति, उत्पादकत्वेऽप्यभिव्यञ्जकत्वाविरोधात् । ग्रहणयोग्यत्वापादकत्वं हि द्रष्यव्यञ्जकत्वम् । तच्चोत्पादकत्वेऽप्यविरुद्धमिति' । एवं रसनादिष्वपि प्रयोगा इति। आप्यं रसनेन्द्रियम् , द्रव्यत्वे सति रूपादिषु मध्ये रसस्यैव व्यञ्जकत्वात् , दृष्टान्तघंटोदकवत् । तैजसं चक्षुः, द्रव्यत्वे सति रूपादिषु मध्ये रूपस्यैव व्यञ्जकत्वात् प्रदीपवत् । वायवीयं स्पर्शनेन्द्रियम् , द्रव्यत्वे सति रूपादिषु मध्ये नियमेन स्पर्शग्राहकत्वाद् व्यजनानिलवत् ।
____सर्वत्रानपायात् इति । चक्षुरादावपि त्वचः सम्भवात् । उत्तरमानसे सरोविशेषे । कार्यस्योपलब्धिलक्षणस्येत्यादिना “न, बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः" न्या०सू०, ३.१.६२] इति सूत्रं व्याचष्टे । बुद्धिरेव लक्षणं कार्यभूता ।
वागिन्द्रियं त्विति । शब्दोत्पत्तौ करणस्य वागिन्द्रियत्वाभिधानात् । आनन्ददायीति । आनन्दशब्देन दुःखाभावे वर्तमानेन मोक्षो लक्षितः । प्रक्रमाद् वा प्रमेयसूत्रेऽस्मिन्नवसरे तेषां पाठात् । तनिमित्तम्', रागादिनिमित्तम् । अवयव्यभिमानः, अवयविग्रहः ।
आश्रितत्व-विशेषणत्वाभ्यां सर्वे गुणा इति वैयाकरणपक्षपरिग्रहः । तथा [20] च तेऽवोचन्
संसर्गि भेदकं यद् यत् सव्यापार प्रतीयते । गुणत्वं परतन्त्रत्वात् तस्य शास्त्र उदाहृतम् ॥ [वाक्यप०, ३.५.१] इति ॥
तर्हि किं द्वन्द्वसमासवर्णनेनेति । प्राधान्यात् तेषामेवास्तु ग्रहणमित्यभिप्रायेणेदमाह ।
१ यच्च गन्धोपलब्धिसम्पादकं करणं तत् घ्राणं तच्च पार्थिवम् रूपरसगन्धस्पर्शेषु मध्ये नियमेन गन्धव्यजकत्वात् । यद् यद् रूपादिषु मध्ये नियमेन गन्धव्यञ्जकं तत् तत् पार्थिवं दृष्टं यथा कस्तूरिकादिद्रव्यम् । तथा च घ्राणं रूपादिषु मध्ये नियमेन गन्धप्रकाशकं तस्मात् पार्थिवमिति । व्योम०प्र०२३३ । २ त्वगव्यतिरेकात् । न्यायसू० ३.१.५५ । त्वगेकमिन्द्रियमित्याह । कस्मात् ? अव्यतिरेकात् । न त्वचा किञ्चिदिन्द्रियाधिष्ठान न प्राप्तम्, न चासत्यां त्वचि किञ्चिद्विषयग्रहणं भवति, यया सर्वेन्द्रियस्थानानि व्याप्तानि यस्यां च सत्यां विषयग्रहणं भवति सा त्वगेकमिन्द्रियमिति । न्यायभा० ३.१.५५ । ३ एवं कर्मेन्द्रियेषु मध्ये वाग् भवति शब्दविषया स्थूलशब्दविषया तद्धेतुत्वात् न तु शब्दतन्मात्रस्य हेतुः तस्याऽऽहङकारिकत्वेन वागिन्द्रियेण सहैककारणत्वात् । सां तत्त्वको. ३४ । ४ आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयमिति (न्यायसू०१. १. ९) सूत्रे । ५-६ न्यायसू० ४.२.३।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org