________________
॥ अष्टमम् आह्निकम् ॥ विशिष्टप्रमेयप्रक्रम इति । चेष्टामात्राश्रयत्वं वृक्षादीनामप्यस्ति' । न च तेषां लक्षणमिह प्रस्तुतम्, मुमुक्षोस्तत्परिज्ञाने प्रयोजनाभावात् । आत्मप्रयत्नातिरिक्तप्रेरकनिरपेक्षेति । रथादि हि प्रयत्नातिरिक्तेन शरीरादिना प्रेर्यते, इदं तु आत्मप्रयत्नेनैव ।
नियतस्य मुमुक्षुशरीरस्याभावात् कर्मविपाकवशात् कदाचिद् मण्डूकादिशरीरोऽप्यसौ भवेदित्यर्थः ।
सितेतरसरणिः अग्निः ।
अवच्छेदाभिप्रायेणेति । विशिष्टरचनावच्छिन्न आकाशदेश एवाकाशकार्यत्वेनोपर्यते । तच्च प्रकृतिगामित्ववचनमिति । ‘सूर्य ते चक्षुर्गमयतात्' [ ] इत्यादिकम् ।
कर्णशष्कुल्यवच्छिन्ननभोभागाभिप्रायेणेति । श्रोत्रशब्दं यतः प्रयुञ्जते व्यवहर्तारोऽतः श्रोत्रव्यवहारे नभोनिमित्तत्वाच्छोत्रस्यापि भौतिकत्वम् । व्यवहारतः समर्थनीयम् , तन्निमित्तत्वाद् व्यवहारस्य व्यवहारद्वारेण समर्थनीयमित्यर्थः ।
आहङ्कारिकाणीन्द्रियाणीति । यथा घटादयो मृद्विशेषाद् एकस्माद् मृत्तत्त्वादुत्पन्ना इति निश्चीयन्ते तथा प्रकाशविशेषाच्चक्षुरादय एकस्मात् प्रकाशविशेषादुत्पद्यन्ते । योऽसौ च प्रकाशविशेषः सोऽह ङ्कारः । तेषां तु व्यापकत्वादिति । व्यापकत्वं त्वहङ्कारस्य, तत्कार्याणामिन्द्रियाणां सर्वत्र सद्भावश्च, तेषां तबृतीनां सर्वत्रापि भावः । इन्द्रियाणामव्यापकत्वमिति चेत् तदाह-वृत्तिवृसिमतो
१-३ चेष्टा व्यापारः, स चातिव्यापकतया अव्यापकतया च न लक्षणम् , वृक्षादिषु भावात्, अभावाच्च पाषाणमध्यवर्तिमण्डूकादिशरीरे इति भावः । अत्रोत्तरभाष्यम्-ईप्सितमित्यादि, तद्याचष्टे हिताहितेति । प्रयुक्तस्य उत्पादितप्रयत्नस्य, न व्यापारमात्रं चेष्टाऽभिमता, अपि तु विशिटो व्यापारः, स च न वृक्षादिष्वस्तीति नातिव्यापकता । यद्यपि च दारुयन्त्रादिष्वीदृशो व्यापारोऽस्ति तथापि मूर्तान्तराप्रयोगे सतीति विशेषणान्न व्यभिचारः, तेषां शरीरे मूर्तेन प्रयोगात् । शरीरस्य मूर्तान्तराप्रयुक्तस्य ईदृशव्यापाराश्रयत्वम्, पाषाणमध्यवर्तिनश्च मण्डूकदेहस्य तव्यापारायोगेऽपि तद्योग्यत्वात् , पाटिते पाषाणे तादृशस्य तद्व्यापारस्य दर्शनादिति भावः । न्या० बाप्तात्प० १.१.११ । ४ घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः । न्याम्सु० १.१. १२ । अत्र च कर्णशष्कुलीसंयोगोपाधिना श्रोत्रस्य नभसः कथञ्चित् भेदं विवक्षित्वा भूतेभ्य इति पञ्चम्यर्थो व्याख्यातः । न्यायवा० तात्प० १.१. १२ । ५ सत्त्वं लघु प्रकाशकम् । साँका १३. । सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् । सां०का० २५ । वैकृतात् सात्त्विकात् । सांतत्त्वकौ० २५ । आहङ्कारिकत्वश्रुतेर्न भौतिकानि । सां० सू० २. २० । ६ अभूतात्मकं व्यापकं चेन्द्रियं प्रतिपद्यमान इदं पर्यनुयोज्यः-व्यवहितार्थग्रहणं कस्मान्न भवति ? कि कारणम् ? व्यापकत्वादिन्द्रियस्य न कुडयादेरावरणसामर्थ्य मस्तीति । न्यायवा० प्र० ३७४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org