________________
भट्टश्रीचक्रधरप्रणीतः [ का०पृ०४३, वि.पृ०४७१ “वीतरामजन्मादर्शनात्" इति न्यायसूत्रम् [३. १.२५] ।
ज्वालाजाल[17] पल्लवितानना इति । ज्वालाजालेन पल्लवितानि संजातानि पल्लवानीवाननानि येषाम् । अदृश्यो(दृष्टो ?) भूतधर्मस्त्विति । यथा उद्भटेन उक्तम्-"शरी[रा]रम्भककारणानामेव भूतानां स कश्चित् तादृशो विचित्रसुखदुःखोपभोगदो धर्मः स्वभावविशेष इत्यर्थः” । दृष्टश्च साध्वीसुतयोरिति । अनेनैव स्वमातृमतं वैगुण्यं निरस्यति । 'कर्मणां ननु वैचित्र्यमिति । प्राणिनां विचित्रसुखदुःखादिकार्यदर्शनाद् यद् एतत् कर्मवैचित्र्यमनुमीयते तत् किं स्वाभाविकम् आहोस्वित् फलवैचित्र्यवद् हेत्वन्तरजम् ? किं स्वभावत एव तादृशविचित्रकर्मसम्पादनं तस्य वृत्तमुत कर्मान्तरप्रयुक्तस्येत्यर्थः । स्वाभाविकत्वे फलवैचित्र्यमपि स्वाभाविकमस्तु, हेत्वन्तरजत्वेऽनवस्था, तद्धेतूनामपि तथाविचित्रकर्मजनकत्वस्य हेत्वन्तरजनितत्वादिति । कर्मणां शास्त्रतो ज्ञातेति । अग्निहोत्रादिकर्मणां शास्त्रतः फलशक्तियोगिता ज्ञात्वा फलार्थी लेषु प्रवर्तते, न पुनः कर्मान्तरं तत्प्रवृत्तौ कारणमित्यर्थः । दृष्टार्थेषु हरीतकीभक्षणादिषु । हेत्वन्तरनिमित्तेऽपि कर्मान्तरकृतकर्मवैचित्र्ये । पुण्यः पुण्यकर्मकारी ।
स्वप्रणीतानुगच्छद्धर्माधर्मेति । स्वप्रणीतौ स्वकृतौ अनुगच्छन्तौ अनुवर्तमानौ यो धर्माधी ताभ्यां क्रमेण परिणतौ(ते) अनन्ततापाय यौ(ये) सुखदुःखे तयोरुपभोगो यस्य । मैत्रेय्या परिचोदित इति । मैत्रेय्या भार्ययेति । पूर्वपक्षत्वेन 'विज्ञानघन एवायम् [बृ०उप०२.४.१२] इत्यागमस्य ग्रहणम् । आत्मनैव(त्मा नैव) विनश्यति इति । “अविनाशी वा अरे अयमात्मा अशीर्यो न हि शीर्यते" इत्याद्युक्तम् [का उप०४.५.१४]। सिद्धान्तसारं सिद्धान्ततात्पर्थम् । इति कवलने मांस्पाकानामिति । मांसस्य पाकः मांस्पाक इति । “पदादिषु मांस्पृत्स्नूनामुपसङ्ख्यानम्" इति [कार्तिक, पा० ६.१. ६३] अकारलोपः । कितवजनतागोष्ठयां कितवजनसमूहगोष्ठयाम् । अस्मिन्नस्मिन् पदार्थे रता मतिर्यस्येति । श्रेयस् ॥[18]
भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे
सप्तममाह्निकम् १ मुद्रितमजा तु ' कर्मणां यदि' इति पाठः । २ अथ ह याज्ञवल्क्यस्य द्वे भायें बभूवतुः, मैत्रेयी च कात्यायनी च । तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव, स्त्रीप्रज्ञेव तर्हि कात्यायनी । बृहदा. उप. ४.५. ३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org