________________
का पृ०३८५, वि.पृ०४१८] न्यायमञ्जरीग्रन्थमङ्गः
तदर्थसाधने सर्वेषां सङ्गतिरेव न स्यादिति । यस्मिन् यस्मिन् व्यापार निवृत्ते ओदनलक्षणफलसिद्धिः स सर्वः पचतिशब्दवाच्यः, काष्ठज्वलनेऽपि च निवृत्ते तत्फलं सिद्धयतीति तस्यापि पचिवाच्यत्वमेव । तदर्थसाधने-पचत्यर्थसाधने । काष्ठा नामपि यदा पचिना व्यापार उपात्तस्तदा पच्यर्थसाधने तानि प्रवर्तन्ते; एवं स्थाल्यादयोऽपि । यदि हि नोपात्तस्तव्यापारः पचिना स्यात् तदा 'स्थाली पचति' 'काष्ठानि पचन्ति' इति पचिना तेषां सङ्गतिर्न भवेदिति । एवं च देवदत्तव्यापारस्य तेनोपादानाद् यथा देवदत्तस्य कर्तृत्वमेवं सर्वेषां काष्ठादीनामपि स्यात् ।
प्रयोज्येनैव व्याख्यातम् । प्रयोज्यस्य स्वतन्त्रस्य कर्तुरनवस्थितत्वात् तस्याप्यः नवस्थितत्वमित्यर्थः ।
एकार्थान्वयित्वमिति । एकार्थावस्थायित्वमेकार्थीभावः; यत्र' पदान्युपसर्जना भूतस्वार्थानि निवृत्तस्वार्थानि वा प्रधानार्थोपादानात् द्वयर्थानि भवन्ति अर्थान्तर भिधायीनि वा सं एकार्थीभावः । प्रयोगप्रतिपत्तिभ्यामिति । तादृशेऽर्थे प्रयोगात् तादृशस्य चाऽर्थस्य ततः प्रतीतेरिति ।।
अश्राद्धभोजीति । अत्र न[176B]ओ भुजिना सम्बन्धः न श्राद्धशब्देन इति असामर्थ्यम् ; 'दधिघटः' इत्यत्र च पूर्णशब्दप्रयोगं विना सामर्थ्याभावः; 'गोरथ इति अत्र च युक्तशब्दं विना'।
तयोरपि तत एव प्रतिषेधसिद्धेरिति । यथा अर्थप्रतिपादने परस्परापेक्षस्य पदसमुदायात्मनो वाक्यस्य समासपदान्निवृत्तिरेवं धातोरर्थप्रतिपादने प्रत्ययापेक्षस्य, प्रत्ययस्य चार्थप्रतिपादने प्रकृत्यपेक्षस्य तत एव निवृत्तिः सेत्स्यतीति ।
अथैकार्थतया समानशीलस्येति । य एव राज्ञः पुरुष इत्यस्य वाक्यस्यार्थः स एव राजपुरुष इति समासस्येति । 'वा'वचनानर्थक्यमिति । विभाषेति समासविधौ यो महाविभाषाधिकारः स वार्तिककृता प्रत्याख्यातो "वा'वचनानर्थक्यं स्वभावसिद्धत्वात्" इत्यनेन । किल तदेतदर्थं क्रियते पक्षे वाक्यमपि यथा स्यादिति । तच्च न वक्तव्यं यदि हि वाक्यस्य समासस्य चैकार्थ्यं स्यात् तदानीं साधुत्वेनान्वाख्यातुः समासो वाक्यं निवर्तयेद् गोशब्द इव साधुत्वेनान्वाख्यातो गावीशब्दम्, तेन पक्षे प्रयोगार्थ तत्करणं शोभते । यदा तु वाक्यस्य व्यपेक्षार्थः राज्ञः कः पुरुषः ?, कस्य पुरुषो राज्ञः ? इत्येवं[177A]रूपो राजपुरुषशब्दस्य चैक एव लोलीभूतोऽर्थस्तदा भिन्नार्थेन राजपुरुषशब्देनाश्वशब्देनेव गावीशब्दवत् कथं निवर्तयितुं शक्येत, येन पक्षे श्रवणाय विभाषारम्भः सफल(लः) स्यादत उक्तम्-स्वभावसिद्धत्वादिति । तदिदमत्र तात्पर्यम् ।
१ द्र० महाभाष्य २. १. ३४।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org