________________
का० पृ०३८१, वि० पृ०४१३ ]
न्यायमञ्जरीग्रन्थिभङ्गः
इति सूत्रस्यानर्थता दृष्टा । अथ चौणादिकानां रूढिशब्दत्वाद् व्युत्पत्तिनिमित्ततयैव तत्र क्रियाकारकसम्बन्ध आश्रीयते, न प्रवृत्तिनिमित्ततया अपि मा भूद् गमनक्रियायोगात् पुरुषादावपि गोशब्दप्रवृत्तिप्रसङ्ग इति, तदयं यद्यपि वरेण्यशब्द उणादी सिद्धयति तथापि यस्तत्र सिद्धयति स क्वचिदेव य [ 168A].
कृतिर्न शब्दस्य |
"6
दम्भेर्हल्ग्रहणस्येति' । “ हलन्ताच्च" [ पा० १.२.१०] इत्यत्र सूत्रे हलन्तो हलवयवो य इकू, ततः परस्य सनः कित्वं भवतीत्यमुं पक्षं " कथं हि इको नाम [ हलन्तः ] स्यादन्यस्यान्यः ?" [महाभाष्य १.२.१०] इति निराकृत्य समीपवचनमन्तशब्दमाश्रित्य इको यो हल् अन्तः समीपस्ततः परस्य सनः कित्त्वमिति सूत्रार्थी व्याख्यातः । एव[मेव ] पुनर्वीप्सतीत्येतदुदाहरणाभिप्रायेण चोदितम् । “ एवमपि दम्भेर्न सिद्ध्यति । यो ह्यत्र इक्समीपो हलू न तस्मादुत्तरः सन्, यस्माच्चोत्तरः सन् नासौ [इक्समीपे ] " [महाभाष्य १.२.१०] इति । तत एतच्चोधपरिहाराय वार्तिकं पठितम् – “ एवं तर्हि दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् " [वार्तिक १.२.१०] 'हल्' इति हल्जातिर्निर्दिश्यते इक उत्तरा या हल्जातिरिति” [महाभाष्य १.२.१०] । आन्यभाव्यं तु कालशब्दव्यवायादिति । तत्रानुवृत्तिनिर्देशे " अस्य च्चौ" [पा० ७.४.३२] इत्यादी अक्षरसमाम्नायिकस्याकारस्याभावात् सवर्णग्रह[णमा]प्नोति अणत्वात् तस्याकारस्य ततश्च मालीभवति इत्यादौ ईत्वं न प्राप्नोति अणि सवर्णान् गृह्णाति । आकारसमाम्नायिकश्च अण- इतरस्तदुक्तम्- "अनुवृत्तिनिर्देशे [173A] सवर्णाग्रहणम् अनत्वात् ” [ वार्तिक १.१.२.१] इति । एवं चोदयित्वा " एकत्वादकारस्य सिद्धम् " [वार्तिक १.१.२.१] इत्यादिना सर्वाकाराणामेकतां प्रतिपाद्य पुनरभिहितम् " आन्यभाव्यं तु" [वार्तिक १.१.२.१] इति । सर्वाकाराणामान्यभाव्यं भिन्नत्वम् । कुतः ? कालव्यवायाच्छब्दव्यवायाच्च । दण्ड अग्रम् इत्यत्र एकमकारमुच्चार्य कालव्यवायेन द्वितीयो [sकारः ] । तथा दण्ड इत्यत्र णकारडकाव्यवधानेनोच्चारणमकारस्य दकारपरोच्चारितस्य । भिन्नानां च कालशब्दव्यवधानं दृष्टं नाभिन्नानामिति । य[थाऽसंहितायां अ इ उ इत्यादीनां भिन्नानां कालव्यवायः । दृतिरित्यत्र च भिन्नयोः ऋकारेकारयोः तकारेण शब्देन व्यवायो
१७१
१ १६८ ब-गतान्यक्षराण्यवाच्यानि । १६९-१७२ पत्राण्यनुपलब्धानि । २ द्र० महाभाष्य १.२.१० । वार्तिकमेतत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org