________________
१७०
भट्टश्रीचक्रधरप्रणातः [का०पृ०३७७, वि०पृ०४०९
वक्तव्ये '[कुमारी ल]तक' इत्याहे ।
ऋतावुपेयादिति । अस्य हि ऋतावुपगमोऽवश्यकर्तव्य इत्यर्थो न तु अनुतुगमनप्रतिषेधः, 'पर्ववर्ज व्रजेच्चैनाम्' [
] इत्यादिना विरोधात् । तत्र चान्यत्र च प्राप्तेः इत्यस्य पूर्वमर्धम्-'"विधिरत्यन्तमप्राप्ते नियमः पाक्षिके सति" [
] इति । ___ यश्चार्य स्वर्ग लोके इति । “एकोऽपि शब्दः सम्यक् प्रयुक्तः स्वर्गे लोके कामधुम् भवति" [
मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमान हिनस्ति
यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ [पाणिनीयशिक्षा ५२] इति स्तुतिनिन्दावाक्ये । परार्थत्वस्य अर्थप्रत्यायनार्थत्वस्य ।
निष्कारणः षडङ्गो वेदः' इति । निष्कारणो दृष्टपशुपुत्रादिकारणमनपेक्ष्यावश्यन्तया इत्यर्थः । [अनितरेतरेति अनितरेतरसाध्योपकारनिर्वर्तकत्वं शिक्षादीनां प्रथमत एवं दर्शितम् । सर्वथा नास्ति व्याकरणप्रयोजनम् , तथा च निष्कारणशब्देन तदेव प्रयोजनरहितत्वमुक्तमिति । पूर्वपक्षवादी कुशकाशावलम्बनेनापि स्वार्थसिद्धिमाह; तदेव निष्कारणषडङ्गवेदाध्ययनविधौ चेत्यादिना प्रदर्शितम् । श्रुतिलिगादी[167B]........स बभूवेति । यो जनो कां दिशं प्रपद्ये इति बुद्धिं संश्रितः कान्दिशीक उच्यते, न चास्य शब्दस्य व्युत्पादकं किञ्चिल्लक्षणमस्ति । भ्राजेच तच्छीलादिषु 'इष्णु'-प्रत्ययो मुनित्रयेणापि न दृष्ट इति तदपेक्षया भ्राजिष्णुरियसाधुः । गणनीयो गण्य इति च गणयतेः “अचो यत्" [पा० ३.१.९७] इति यति “णेरनिटि" [पा० ६.४.५१] इति णिलोपे सति भवति, तत्र प्राप्तस्य णिलोपस्याकरणाद् गणेय इत्यसाधुः । वरेण्यशब्दश्च स वरणीयो वरेण्य इति कृत्यप्रत्ययसमानार्था(थ)तया 'पुण्यो महाब्रह्मसमूहजुष्टसन्तर्पणो नाकसदां वरेण्यः' इत्यादौ यौगिकत्वेन प्रयुज्यते न च तथा व्युत्पादकमस्य समस्ति । एतच्च उणादिप्रेत्याख्यानपक्षाश्रयेणोक्तम् । अप्रत्याख्यानेऽपि वा 'अवद्यपण्य[वर्या' [पा० ३.१.१०१]
१ अशक्तिजानुकरणार्थः-अशक्त्या कयाचिद् ब्राह्मण्या 'ऋतक' इति प्रयोक्तव्ये 'लतक' इति प्रयुक्तम् । तस्यानुकरणं ब्राह्मण्य्लतक इत्याह कुमालतक इत्याहेति । महाभाष्य १. १. २.२ । २. महाभाष्ये ( पृ० ३४) उद्धतम् । ३. महाभाष्ये (पृ० २१) आगमः उद्धृतः। ४ 'भुवश्च' [ पा० ३.२.१३८ ] इति सूत्रेण 'भ्राजिष्णुः' सिद्धथति इत्येतद्धयेयम् । द्र० काशिका । ५ द्र० 'वृज एण्यः' उणादि ३. ३८५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org