________________
१५२
भट्टश्रीचक्रधरप्रणतः [का०पृ०३२५, वि०पृ०३५४ उपादानं शेषीकुर्वन्निति । 'पशुना यजेत' इति विनियुक्तस्य पशोरुपादीयमानस्य नियोग एकत्वसङ्ख्यां शेषीकुर्वन् । ननु नियोगः किं करोति ? विभक्तिरेव यथा प्रातिपदिकार्थस्य शेषतामाह तथा स्वार्थस्यापि वदिष्यति, नेत्याह-विभक्तथा हीति । एकेनेत्यश्रवणादिति । यथा पशुनेति पश्वर्थस्य करणत्वं प्रतीयते न तथैकत्वस्य, एकेनेति निर्देशाभावादित्यर्थः । न सङ्[149A]ख्यारहितस्तत्रोपादातुं शक्यत इति । अपरिच्छिन्नस्योपादानासम्भवादवश्यमेको द्वौ बहवो वोपादीयन्ते इति ।
तस्य द्वादशलक्षण्यां तत्तद्रूपं प्रकाशितमिति। किं किं प्रकाशितमित्याकाङ्क्षानिवृत्त्यर्थ दिङ्मात्रमुच्यते । प्रमाणलक्षणे तावत् तस्य नियोगस्य स्वातन्त्र्यप्रतिपत्त्यर्थ वेदस्य नित्यत्वेन प्रामाण्यं प्रतिपादितम् , अर्थवादस्मृत्यादिनामधेयादिद्वारायातमप्रामाण्यं सर्वप्रकारं परिहृतम् । तथा हि नित्यत्वेन प्रमाणाद् वेदाद् योऽवगतो नियोगः स न लौकिकः 'हरीतकी भक्षयेद् विरेककामः' इति नियोगवद् विनियोगनिष्ठः, अपि तु स्वतन्त्र एवेति तत्र साधितम् । द्वितीयाध्याये भेदलक्षणे च क तस्य प्राधान्यं काप्राधान्यं काभेदः क वा भेदः कानि च तस्य भेदकानि प्रमाणानीति चिन्तितम् । तथा ह्याग्नेयोऽष्टाकपालो भवतीत्यादौ प्राधान्यम् । समिधो यजतीत्यादौ त्वप्राधान्यम् । आग्नेयोऽष्टाकपालो भवति, समिधो यजतोत्यादौ च भेदः । आग्नेयोऽष्टाकपालः, व्रीहीनवहन्तीत्यादौ त्वभेदः, उभयत्रैकस्य नियोगस्य साध्यत्वात् । तथा यत दद्याज्जुहुयादित्यादौ शब्दान्तरकृतो भेद इत्यादि । तृतीये शेषलक्षणे श्रुत्यादिप्रमाणषट्केन यः पदार्थानां विनियोगः पराङ्गत्य(त्व,लक्षणः प्रतिपादितस्तस्य परस्परान्वयरूपस्वरूपतिरस्कारेण योऽयमत्यन्तं पारार्थ्यलक्षणः[ऐदम-]
\नानुष्ठानपर्यन्तो विशेषस्तत्र नियोगस्यैव व्यापारः, मतः एव 'नियोगमों विनियोगः' इत्याधुक्तम् । अतो यो मदीयो ममोपकारी स भवद्भिः श्रुत्यादिभिः प्रमाणैरेदमर्थ्यद्वारेण मयि समर्यो नान्य इति तत्र चिन्तितम् । श्रुत्यादिप्रमाणस्वरूपं च प्रथमालिके दर्शितम् । चतुर्थे तु प्रयुक्तिलक्षणे यत्र श्रत्यादीनि विनियोजकतां नासादयन्ति तत्र पश्वेकत्वादी नियोगस्यैवौपादानिक विनियोजकत्वं सर्वधर्माणां च कचित् पुरुषार्थद्वारेण तस्य प्रयोजकत्वं यथा गोदोहनादेः, कचित् क्रत्वर्थत्वेन यथा चमसादेः । एवं सर्वधर्मास्तत्प्रयुक्ता एवेति । यथा ग्राहकाख्यो योऽसौ [150A] नियोगस्य व्यापारो येन परिगृहीतान् धर्मान् श्रुत्यादीनि विनियुञ्जत इत्यादि चिन्तितम् । पञ्चमे तु "प्रयोगपर्यन्ते नियोगव्यापारे स्थिते सति पदार्थाः कथमनुष्ठेयाः बहुत्वात् पदार्थानाम् एकत्वात् कर्तुर्युगपदनुष्ठानासम्भवात् अवश्यं क्रम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org