________________
का०पृ० ३२५, वि०१०३५४ ] न्यायमञ्जरीग्रन्थिमनः पादनात् , अतोऽयमेवोत्पत्तिविधिः' । रेवतीषु वारवन्तीयाख्यगुणविधानाच्च विनियोगविधित्वम् , पशुकामपदसम्बन्धाच्चाधिकारविधित्वम् । अधिकारविधित्वाच्च प्रागुक्तप्र. योगविधित्वमिति ।
___ [माणवकस्थस्येति] “अष्टवर्षे ब्राह्मणमुपनयीत" इत्याचार्यकरणविधिः, आचार्यकरणे आत्मनेपदविधानात् । तत्र च न कटं कुटयं ड्यं.) वा कारयितुं समीपं नीयते माणवकः अपि त्वध्यापयितुमित्ययमेवाध्यापनविधितिः । स चाध्यापनसिद्धया स्वसिद्धिं पश्यन्नध्यापनमाक्षिपन् येन विनाऽध्यापनं न सिद्धयति तदप्याक्षिपतीति माणवकाध्ययनमविनियुक्तमप्याक्षिपति ।
कचिदन्याक्षिप्ते वस्तुनीति । ज्योतिष्टोमे अरुणयैकहायन्या सोमं क्रीणातीति श्रुतम् । तथा 'षट् पदान्यनुनिष्कामति सप्तमं पदमभिगृह्णाति[148A] । अथ यर्हि हविर्धाने प्रवर्तयेयुस्तर्हि तेनाक्षमुपाङ्ग्यात्' इति; षट्पदानि यदाऽसौ गौः सोमक्रयार्थ नीयमानाऽनुनिष्क्रान्ता भवति तदा सप्तमपदात्पांसुं गृह्णीयात् । यहि यदा ऋत्विजो हविर्धाने हविर्धानशकटे प्रवर्तयेयुस्तदाऽनेन पांसुना शकटाक्षमञ्ज्यात् म्रक्षये. दित्यर्थः । तत्र किं क्रयार्थ पदपांसुग्रहणार्थ चैकहायन्यानयनमुत क्रयार्थमेवेति[संशयः] तत्रोभयार्थतामाशय क्रयार्थमेवानयनं स्थापितम् । न हि विशिष्टं देशमनीतया सोमक्रयः कर्तुं शक्यत इति नीयमानायां चावश्यंभावि सप्तमं पदमिति नान्याक्षेपः । ग्राहक इति विधिरुच्यत इति । यद् यत् प्रकरणे पठितं तत् तदविशेषेण 'खले कपोत'न्यायेनात्मीयत्वेन स्वीकरोत्यतश्च 'मदीयस्त्वम्' इत्यनेन रूपेण गृह्णन् ग्राहक इत्युच्यते ।
तेनागृहीतस्य द्वादशोपसदादेरिति । द्वादशोपसत्ताऽहीनस्येति ज्योतिष्टोमे श्रूयते । तत्र यद्यप्येतत् प्रकरणे श्रुतम् तथापि तिम्र उपसदो भवन्तीति वचनान्तरेणोपस. स्त्रयप्राच्या निराकाङ्क्षीकृतो न द्वादशोपसत्तां [148B]प्रकरणश्रतामप्यपेक्षते । यदि हि तस्यापेक्षा स्यात् तदा हीनशब्दो द्वादशाहे [प्रसिद्धो]पि न हीयते दक्षिणयेत्यहीन इति कथश्चित् ज्योतिष्टोमवाचकत्वेन परिकल्प्यवाक्यसमन्वयः क्रियते इति । अत एवेति नियोगेनागृहीतत्वाद् द्वादशोपसदादेर्नियोगापेक्षाया अभावात् सदपि श्रुत्यादिप्रमाणषट्कमध्यपरिपठितं प्रकरा(करणा)ख्यं प्रमाणं न विनियोगकल्पनायां क्षममिति । विस्तरतश्चैतत् प्रथमाह्निके व्याख्यातमिति ।
१ कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः । अर्थसं० पृ.२० । २ अङ्गप्रधानसम्बन्धबोधको विधिर्विनियोगविधिः । अर्थसं० पृ०२२ । ३ द्र० न्यायरत्नमालाया नायकरत्नव्याख्या पृ० २-१६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org