________________
૨૪૮
भट्टश्रीचक्रधरप्रणीतः का०पृ०३२१, वि०पृ०३५० तस्य लिप्सार्थलक्षणेति सूत्रप्रतीकः । 'यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाऽविभक्तत्वात्' इति सूत्रम् [मौ०सू० ४.१.२] यस्मिन् कृते पुरुषस्य प्रीतिरुत्पद्यते तस्य ल[144B]न्धुमिच्छा तत्र प्रवृत्तिपर्यन्ता प्रीतिलक्षणा फलनिबन्धनैव न वैधी । नन्वस्तु तत्र तत्र विषये प्रीतिनिबन्धना लिप्सा, प्रवृत्तिः कथम् ? इत्याह-'अविभक्कत्वात्' इति । प्रीत्या पुरुषार्थेन तत्साधनत्वात्, विषयस्याविभक्तत्वाद् अविभागेन व्यवस्थितत्वात् पुरुषार्थतेव, अतः पुरुषार्थनिबन्धनैव तत्रापि प्रवृ. त्तिरित्यर्थः ।
शत्रु वैदिकेनोपायेनेति । यथा 'शयाना भुञ्जते यवनाः' इत्यत्र सिद्धं शयनं भुजिक्रियालक्षणत्वेन प्रतिपाद्यते एवं प्रागुत्पन्नाऽभिचारेच्छाऽधिकारं प्रति लक्षणत्वेनोपात्ता।
___अतः श्येनादेरधर्मत्वादिति । अर्थपदे ह्यक्रियमाणे चोदनालक्षणत्वेन श्येनादेरपि धर्मत्वं प्राप्नोत्यनर्थस्य प्रत्यवायहेतोः, तन्निवृत्त्यर्थमर्थग्रहणम्' ।
क्रत्वर्थों हि शास्त्रादवगम्यते नान्यथेति [शाबरभा० ४.१.२] भाष्यम् । क्रतवेऽर्थः क्रत्वर्थः क्रतूपकारक इतिकर्तव्यताभागः । स शास्त्रादवगम्यते कर्तव्यत्वेन । ननु यथा फलसाधनस्य करणत्वात् तत्र लिप्सानिबन्धना प्रवृत्तिः, एवमितिकर्तव्यतांश. स्यापि करणोपकारद्वारेण फलसाध[145A]नत्वमस्तीति तत्र लिप्सातः प्रवृत्तिः किमिति न भवेत् ? इत्याशङ्क्याह-इतिकर्तव्यतांशस्त्विति । “फलसिद्धिमवान्तरीकुर्वन्नियोगं साधयत्यतस्तस्य फलेन सम्बन्धः, नेतिकर्तव्यतायाः" इत्येके । अन्ये तु “प्रयोगकाले करणस्येतिकर्तव्यतापेक्षणम्, न प्रतिपत्तिकाले। अधिकारावस्थायां हि करणस्यैव फलसिद्धावुपायतावगमः, प्रयुज्यमानस्त(स्तु) शुद्धोऽनुपकृतः फलसिद्धये न .प्रभवतीति प्रयोगकाले प्रवृत्तस्येतिकर्तव्यतापेक्षणं न प्रथमतः । फलार्थितया न तत्र करण इव प्रवृत्तिः" इत्याहुः । सामान्यशास्त्र चेति । यथा 'यज्जुह्वति तदाहवनीयः' इति सामान्यशास्त्रं सर्वहोमाधिकरणत्वेनाहवनीयस्य प्रापकं 'पदे जुहोति' इत्यादि विशेषविधिपरिहारेणावतिष्ठते । तथा 'न हिंस्यात्' हिंसा न कार्येति सामान्यम् , 'अग्नीषोमीयपशुहिंसा कार्या' इत्येतद्वयतिरेकेण प्रवर्तते ।
__ पशुपुरोडाशेति । अ[145B]ग्नीषोमीये पशो पशुपुरोडाश आम्नातः। 'अग्नीषोमीयस्य वपया प्रचर्याग्नीषोमीयमेकादशकपालं पशुपुरोडाशं निर्वपति' इति । तस्य प्रकृतिवद्भावात् प्राप्तानां प्रयाजादीनामङ्गानां किं पृथक् प्रयोजकत्वमुत पशुप्रयुक्तैरेव
१. कोऽर्थः ? यो निःश्रेयसाय ज्योतिष्टोमादिः। कोऽनर्थः ? यः प्रत्यवायाय श्येनो वज्रम् । इषुरित्येवमादिः । तत्रानों धर्म उको मा भूदित्यर्थग्रहणम् । शाबरभा० ०१.१.२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org