________________
१३२
भट्टश्रीचक्रधरप्रणीतः [ का०पृ०२७७, वि० पृ०३०३
व्याख्याने तद्विशेषणोपकार्य वस्तुरवरूपग्रहण वेलायामेवेत्यत्र तानि विशेषणान्युपकार्याणि यस्य वस्तुनस्तद्विशेषणोपकार्यमिति विग्रहः कर्तव्यः ।
महती (a) [कृपा ]णवृष्टिमिति । तथाहि भट्ट आहअगोनिवृत्तिः सामान्यं वाच्यं यैः परिकल्पितम् । गोत्वं वस्त्वेव तैरुक्तमगोऽपोहगिरा स्फुटम् ॥ भावान्तरमभावो हि पुरस्तात् प्रतिपादितः । तत्राऽश्वादिनिवृत्यात्मा भावः क इति कथ्यताम् ॥ इत्यादि
[ श्लो० वा० अपोहवा ० १ २] न च वर्गीकरणे निमित्तमिति । एकदेशकालादि । अपोहानां भेदाभावात् । अभावरूपत्वादिति भावः । अपोहभेदादिति । केषाञ्चिद् अगोऽपोहोऽर्थः केषाञ्चिद् अनश्वापोह इति । विप्रतिषिद्धधर्मेति ।
विप्रतिषिद्धधर्माणां विरुद्धधर्माणां एक [126A]त्र समवायप्राप्तौ सत्याम् | बहूनां सधर्मत्वं । बहूनां ये धर्मास्ते ग्राह्या इत्यर्थः । तस्माद्विलक्षणस्तुरा (२) गादेरपोहरूपाद विलक्षणः । न च वृत्तिरपि काचिदस्त्यभावरूपत्वात् । कल्पनयैव कल्पितेनैव रूपेण । उपसर्गनिपातानामिति । प्रादि-चादीनामपोह्यस्यादर्शनादस्वतन्त्रप्रयोगत्वात् तेषाम् । तथा चाह भट्टः "चादीनामपि नञ्योगो नैवास्तीत्यनपोहनम्" इति । [ श्लो०त्रा० अपोहवा ० १४३] आख्यातशब्दानां चेति । पचत्यादौ हि नञ्योगे पाकाभावप्रतीतिर्नपाठादेवेति । तथा चाह-आख्यातेषु च नान्यस्य निवृत्तिः संप्रतीयते ।
Jain Education International
न पर्युदासरूपं हि निषेध्यं तत्र विद्यते ॥
न तिच्यमानेऽपि निषेधस्य निषेधनम् ।
पचतीत्यनिषिद्धं तु स्वरूपेणावतिष्ठते ॥ इति ॥ [ श्लो० वा० अपोहवा ०
ज्ञानार्थाभ्यामन्य एवेति धर्मोत्तरः, तथा चाहासौ
बुद्धया कल्पिकया विविक्तम परैर्यद्रूपमुल्लिख्यते बुद्धिन न बहिर्यदेव च वदन्निस्तत्त्वमारोपितम् । यस्तत्त्वं जगतो जगाद विजयी निःशेषदोषद्विषां वक्तारं तमिह प्रणम्य शिरसाऽपोहः स्म विस्तार्यते ॥ इति ॥
For Private & Personal Use Only
१३९-४०]
[ अपोहप्रकरण ? ]
www.jainelibrary.org