________________
का०पृ०२७७, वि०पृ०३०३] न्यायमारोग्रन्थिमनः
१३१ औपाधिक इति । एकस्यानेकवृत्तित्वादिरुपाधिः, तत्कृतः। यथा गोत्वमेकमनेकवृत्ति च तथाऽश्वत्वाद्यपीति ।
एकमत्यवमर्शेति' । धीर्मेदिन्यप्येकावमर्शजननादभेदिन्युच्यत इति ।
एकस्यार्थस्वभावस्येति । एकस्येति निरंशस्य । कोऽन्यो न दृष्टः । प्रत्यक्षदृष्टात् स्वभावात् कोऽन्यः स्वभावो न दृष्टो यः प्रमाणैर्भवतः प्रमाणतयाऽभिमतैर्विकल्पैरनुमानैश्च परीक्ष्यते । प्रमाणैरिति विकल्पव्यक्त्यनु[125AJमानव्यक्त्यपेक्षया बहुवचनम् । .. तस्माद् भ्रमनिमित्तेति । तदुक्तम् - 'नो चेद् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् । शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात्' इति॥ [प्रमाणवा० ३. ४३]
नानाविशेषणनिकरेति नानाभूतानि विशेषणानि गोत्वशाबलेयत्वद्रव्यत्वादीनि। तद्विशेषणोपकारशक्तिव्यतिरिक्तात्मनोऽनुपलम्मादिति । अस्यायमभिप्रायः । धर्मिणः सकाशादमी भिन्ना अभिन्ना वा, भिन्नाश्चेदभ्युपगम्यन्ते सदा भिन्माना सम्बन्ध उपकारं विना न घटत इति धर्मिणस्तदुपकारिका शक्तिः कल्प्या । सा च कल्प्यमाना एका अनेका वा कल्प्येत । अनेकाश्चेत् तासामपि शक्तीनां ततो भेदः अङ्गीकर्तव्यः, न ह्येकस्यानेकात्मकत्वं सम्मवतीति । भिन्नानां च सम्बन्ध उपकाराभावे न सम्मवतीत्यपरापरोपकारशक्तिकल्पनायामनवस्थाप्रसङ्गः । अथैकाऽभिन्ना चेति पक्षस्तदपेक्षयेदमुक्तम्तद्विशेषणेति । यस्यापि नानोपाधेरिति । यस्यापि वैशेषिकादेः परस्परमाश्रयतश्च भिन्ना नानाभूता उपाधयो द्रव्यत्वादयो विशेषणानि यस्य तस्य नानोपाधेरर्थस्योपाधिभेदादेव भेदिनो निश्चयात्मिका धीर्विधिमुखेनैव ग्राहिका, प्रत्युपाधि च भिन्नेति म[125B]तं, तस्यापि पक्षे नानाभूतानामुपाधीनां द्रव्यत्वादीनामुपकारस्याङ्गं कारणं या शक्तिः तदभिन्नात्मन उपाधिमत एकेन निश्चयज्ञानेन ग्रहे निश्चये सर्वात्मना कृते सत्युपकार्यस्योपाधिकलापस्य मध्यात् को भेदः क उपाधिविशेषः अनिश्चितः स्यात्-सर्व एव निश्चित इत्यर्थः - इत्येवमिदं धर्मकीर्तिवार्तिकं व्याचक्षते । अस्मिंश्च
१ प्र० वा० ३. १०४। २-३ प्रवा० ३. .४२ । १ अनुमानव्यतिरिकविकल्पानां प्रामाण्यं धर्मकीर्तिना न स्वीकृतमस्ति । अत्र चक्रधरस्य प्रमादः । ५ धर्मोपकारशकीनां मेदे तास्तस्य कि यदि । नोपकारस्ततस्तासां तदा स्यादनवस्थितिः ॥ प्र०वा० ३.५३ । द्र. स्वो०० पृ०१९ ६ प्र०वा० ३.५१ । द्र० स्वो०वृ० पृ० १९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org