________________
का०पृ०२७०, वि०पृ०२९५] न्यायमञ्जरीग्रन्थिभङ्गः
१२७ तथापि कृतयत्नातिशयो न कामपि यदा धनमात्रामाससाद तदा कालेन महद्वैराग्यमस्य प्रादुरभूत् , तथाविरक्तश्च कदाचिन्निधिमुपलभ्य तदुपरि मूत्रपुरीषोत्सर्गमकरोदिति श्रूयते ।
प्रतिपत्तिकर्तव्यतापि कुन इति । प्रतिपत्ति(त्ति) कुर्वित्युपदिश्यते, सा चेच्छब्दाद्भवति तदा कर्तुं शक्या ।
पदार्थान्तराणाम् । शुक्लैीहिभिर्यजेतेत्यादिषु द्रव्यगुणादीनां वाक्यीयः परस्परसम्बन्धः साकाङ्क्षाणां सन्निधानकृतः ।
विभक्त्या तृतीयया । कार्यपारतन्त्र्यापादिका विभक्तिरिति । तृतीयया हि द्रव्यगुणयोः क्रयकार्य प्रति पारतन्त्र्यं प्रतिपादितम् , अतस्तत्रैवोपक्षीणाऽसौ । वीहीन् मोक्षतीति । प्रोक्षणस्य भव्यस्यापि व्रीह्यर्थत्वात् । ननु दर्शपूर्णमासप्रकरणादपरित्यक्तपारार्थ्यानामेव व्रीहीणामसौ[120A] संस्कार इत्याशङ्क्याह-अलं वेति ।
कर्म किञ्चित्साध्यं प्रधानमिति । दर्शपूर्णमासप्रधानकर्मोपदेशात् तादर्थ्य व्रीह्यादीनां नैवमत्र ज्ञानमेव प्रधानं कर्म भविष्यति । तत्र साध्यगुणत्वेनैवात्मनो द्रव्यस्य सम्बन्ध इति चेन्न । साधिकारं हि प्रधानं कर्म भवति, न चात्राधिकारः श्रूयते । न चाधिकारकल्पना भवति; सा ह्यनुष्ठानाय क्रियते, अनुष्ठानं च वक्ष(क्ष्य)मा. णनीत्याऽपि सम्भवतीत्यभिप्रायः । ननु कर्मप्रवृत्तिसिद्धयर्थ नित्यत्वेनात्मनो ज्ञानोपदेशात् पारार्थ्यमेव, तन्नेत्याह- न च कर्मप्रवृत्तीति । 'अथात्मा ज्ञातव्यो निदिध्यासि. तव्यः' इत्याधुपक्रम्य 'एवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते न स पुनरावर्तते' [छान्दो० उप० ८. १५. १]इत्यादेरथेवादाद पुनरावृत्तिकामोऽधिकारी लभ्यते । तन्नेत्याह-अर्थवादस्त्विति । आत्मस्वरूपनिष्ठत्वमेवेति । आत्मा ज्ञातव्यः, अपहतपाप्मत्वादिगुणवत आत्मनः साक्षात्कारो यथा भवति तथा कुर्यात् , [120B] न पुनस्तज्ज्ञानेनान्यदिति । तस्मादपहतपाप्मादीति । “एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विंशोको विजिघस्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः' [छान्दो० उप० ८. १.५]इत्यादिग्रहणेन श्रुतिपरिग्रहः। यदि न तेनान्यत् साधयेत् तर्हि तत्स्वरूपमात्रप्रतिपत्तौ निष्फलायां किमर्थ प्रवर्तेतेत्याह--तस्मिन्नवगत इति। स एव झुत्तमः पुरुषार्थः, तथाविधावस्थाया एव कैवल्यशब्दवाच्यत्वात् । यदि तादृगसौ तहिं स्थित एव तेन रूपेणेति किमर्थं तदुपासनादियत्नविशेष इत्याह-यत्नस्त्विति ।
प्रतिपत्तिकर्तव्यतापरोऽयमिति । अयमर्थः । आत्मा ज्ञातव्यः' इति नायं विधिरपहतपाप्मत्वादिविशिष्टात्मस्वरूपप्रतिपादनपरः, किन्त्वेवंविधात्मप्रतिपत्तिरत्र कर्त.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org