________________
का०पृ०२६४, वि०पृ०२८८ ] न्यायमञ्जरीग्रन्थिभङ्गः
१२३ विशेषाणां ब्रह्मन्-आच्छंसि-पोत-नेष्ट्रलक्षणानां चतुर्णामभिधानं, तेषां यज्ञमुखप्रदेशवर्तित्वाच्छृङ्गतुल्यत्वम् । [114A]
___ ओषधे त्रायस्वेति' । पशुसंज्ञापनकाले पशुपरित्राणार्थमध्वर्युदर्भमाह- ओषधे त्रायस्वेति । तस्या अचेतनायाश्चेतनवत्त्वसमारोपः स्मृ(स्तु)तिः । मातरनुवाकस्तुतिरिति प्रातरनुवाकाख्यः श(शास्त्रविशेषः ऋग्वेदप्रसिद्धः। यदचेतना ग्रावाणोऽपि शृणुयुरित्यस्य किं पुनविद्वांसो ब्राह्मणा इति शेषः ।
यत्तु केषाश्चिन्मन्त्राणामों न ज्ञायत इति । तत्र 'अम्यक् सा त इन्द्र ऋष्टिरस्मे सनेम्यन्वं मरुतो जुनन्ति अग्निश्चिद्धि मातसे शुशुकानापो न द्वीपं दधति प्रयांसि' इति [ऋग्वेद १.१६९.३] तावन्मन्त्रस्यायमर्थः । अगस्त्योऽमरत्वं प्रार्थयमान इन्द्रमाह - हे इन्द्र सा ते भवत्सम्बन्धिनी ऋष्टिरायुधविशेषः अस्मे अस्माकं स्थितैव, किंविशिष्टा ? अम्यक् अमिशब्दः सहार्थे अमि सह अञ्चतीत्यम्यक् या तव सहचारिणीत्यर्थः। अग्निः चित् हि स्म अग्निरिव हि अतसे शुष्कतृणे, शुशुक्कान् दीप्तवान् शुष्कतूणप्रज्वलिताग्नितुल्या या लक्ष्यत इत्यर्थः । येऽप्येते मरुतः सनेमि पुराणमभ्वं तोयं जुनन्ति वृष्टिरूपेण प्रक्षरन्ति । अत एव प्रयांस्यन्नाद्यानि दधति धारयन्ति तव सखाः तेऽप्यस्माकमेव कथं [114B]........ तावच्छब्दौ प्राङ्नीत्या प्रहरणहिंसापरौ सति च प्रहर्तव्ये तत्परत्वमनयोनान्यथाऽश्विनोश्च देवभिषजोर्जरणमरणे एव प्रहर्तव्यहिसितव्ये च नान्यत् । अत उक्तम्-जरणमरणनिमित्ताविति । यत एव च जरामरणयोः प्रहर्तारौ हिंसितारौ चाश्विनावत एव ताभ्यामजरत्वममरत्वं च प्रार्थितवानगस्त्य इति । 'एकया प्रतिधाऽपिबत् साकं सरांसि त्रिंशतम् । इन्द्रः सोमस्य काणुका' इति [ऋग्वेद ८.७७.४] मत्रे(न्त्रे)णेन्द्रः स्तूयते । एकया प्रतिधा एकेन प्रयत्नेन साकं युगपत् त्रिंशतं सरांसि पात्राणि सोमस्य पूर्णानीन्द्रोऽपिबत् । काणुका कामयमानः सन् । ___ अग्निवृत्राणीति । अग्निर्वृत्राणि पापानि जङ्घनदत्यर्थ हतवानित्यर्थः । हिरण्यपर्णेति । न हि लोके वनस्पतीनां हिरण्मयपर्णत्वमित्यर्थान्यत्वम् । वाराही उपानहीं
१ य०वा सं. ५.४२, तै०सं० १.३.५ । २-३ शाबरभा० १.२.४.३८ । . द्र० निरुक्त ६.१५, तन्त्रवा० १.२.४.४१। ५ ११५ पत्रं नोपलभ्यते । ६ अधोनिर्दिष्टऋग्मन्त्रस्यैषा व्याख्या-मृण्येव जभरी तूफरीतू नैतोशेव तुर्फरी पर्फरीका । उदन्यजेव जेमना मदेरू ता मे जराय्वजरं मरायु ॥ [१०. १०६. ६] अस्य व्याख्यार्थ द्रष्टव्यम्-(१) तन्त्रवा० १.२.४.४१; (२) सायणभा०। ७. तन्त्रवा० १.२.४.४१, निरुक्त ५. १०; सायणभा०। ८ ऋग्वेद ६. १६.३४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org