________________
का०पृ०२३८, वि०पृ०२६० ] न्यायमञ्जरीग्रन्थिमन सन्तप्ता मनस ऊर्ध्वमुत्क्रान्तिं कुर्वते तथा तस्मादक्षरमूर्ध्वमुत्क्रान्तमित्यर्थः । यथा च लोके तस्करैः पीड्यमाने बालकादौ तत्सम्बन्धिनोऽतिस्नेहात् प्राणोत्क्रान्तिं कुर्वन्ति तस्करेभ्यश्च सारभूतं सर्वस्वं प्रय[94B]च्छन्ति तथाऽथर्ववेदाद् अप्रियाद् भीत्या तथाविधावस्थाप्राप्तात् सारभूताक्षरनिःसृतिरिति तात्पर्यम् । तथा महाव्याहृतीनामिति । तथाहि "प्रजापतिर्वा इद मन आसीत्" इत्युपक्रम्याऽऽह-"स इमांस्त्रीन् वेदानभितताप । तेभ्यस्तप्तेभ्यस्त्रीणि शुक्राण्यजायन्त भूरिति ऋग्वेदाद् भुव इति यजुर्वेदात् स्वर इति सामवेदात् [तद्] ऋग्वेदेनैव हौत्रमकुर्वत यजुर्वेदेनाध्वर्यवं साम वेदेनौद्गात्रं यदेव त्रय्यै विद्यायै शुक्रं तेन ब्रह्मत्वम्" इति [शतपथब्रा० ११. ४. १४] पृथग् ब्रह्मवेदप्रतिपादकेन शुक्रशब्देन व्याहृतीनां निर्देशादथर्ववेदादुत्थानमिति दर्शयति। तथा च "मन एवाक्षरमूर्ध्वमुदगात्" इत्यस्यावसान आह "स य इच्छेत् सर्वस्वाथभिश्चाणैश्च कुर्वीतेत्येतयैव तं महाव्याहृत्या कुर्वीत' इत्यादि [गोपथब्रा० १.१]। अनेन प्रागुक्तोत्पत्तिकानामाथर्वणत्वं दर्शितम् । वृहदित्यादीनां बृहज्जनः तपः महः सत्यमित्यासाम् । स्वकर्मभ्रेषे प्रायश्चित्तमिति । तथाहि [95A]-यदि ऋक्त आर्तिमाछैद् भूरित्येव जुहुयात् ;यदि यजुष्टः, भुव इत्येव; यदि सामतः, स्वर इत्येवेत्यथर्वविहितं प्रायश्चित्तम् ।
न च तदान हतमित्यनेन मीमांसकैर्यदस्याप्रामाण्यमापादितं तदाशङ्कते । उपक्रमविरोधात् । सामान्येन वेदब्रह्मचर्यमिति सर्ववेदविषयत्वेनोपक्रमात् । तेन वेदान्तराध्ययनकृत इति । योऽयं 'षत्रिंशदाब्दिकम् [मनुस्मृति ३. १]इत्यस्य 'अष्टाचत्वारिंशतं वर्षाणि' इत्यनेन विकल्पः स वेदत्रयकृते द्वादशकत्रये सति चतुर्थे द्वादशकेऽथर्ववेदापेक्षया निर्दिष्टे तावत्सङ्ख्यासद्भावादिति स्थितः, न पुनः प्रतिवेदं द्वादश षोडश वा वर्षाणीत्येवम् । अनादरोऽप्यस्यामिति । अष्टचत्वारिंशतं वर्षाणि ब्रह्मचर्ये कृते' दारसङ्ग्रहापत्योत्पादनादावन्यो बहुकालो यात्यतः कथं कृष्णकेशतेति विरोधः । अथर्ववेदाध्ययनपर्युदासमेवेति । अथर्ववेदाध्ययनपर्युदासमथर्ववेदादन्ये[95 B]षु देध्वेवं व्रतं चरणीयम् , न पुनरथर्ववेदः सर्वथैव नाध्येतव्य इति तात्पर्यम् ।
दर्शितं च अथर्वशिरोऽध्ययनेति । यदुक्तम्त्रिनाचिकेतो विरजाश्छन्दोगो ज्येष्ठसामगः । अथर्वशिरसोऽध्येता चत्वारः पङ्क्तिपावनाः ॥ इति ॥ [यमस्मृति] यत्त ज्येष्ठसामग इति तदुक्तम्
१ अष्टचत्वारिंशद्वर्षाणि पौराणं वेदब्रह्मचर्यम् । बौधायनध० सू० १.२.१ । २ कृष्णकेशोऽग्नीमादधीतेति श्रुतिः । बौधा ध० सू० १. २. ६ । ३ पराशरस्मृतिमाधवाचार्यव्याख्यायां यमस्मृतेः उद्धृतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org