________________
भट्टश्रीचक्रधरप्रणीतः [का०पृ०२३६, वि०पृ०२८ वेदविरुद्धमित्यनाहतम् । कल्पसूत्राणां वेदविरोधे दुर्बलत्वान्मीमांसकैश्चाविरोधेऽपि तेषां प्रामाण्यानभ्युपगमात् । अनारभ्यवादपक्ष इति । 'अनारभ्याधीतानां प्रकृतिगामित्वम्' इति यद्यपि प्रकृतौ निविशते तथापि प्राङ्नये नाविदो ब्रह्मत्वप्रतिपादनादथर्वविहितेन कर्मणा सम्पर्को दुष्परिहर इति नियतकमैकदेशविषयतया तद् व्याख्येयमिति तात्पर्यम् ।।
तेषाम् ऋगिति'। अर्थवशेन तथा 'अग्निमीळे पुरोहित[93B]म्' इति [ ऋग्वेद १. १]अत्र क्रियाकारकलक्षणार्थपरिसमाप्तेः पादव्यवस्था । ननु तर्हि "अग्निः पूर्वेभिर्ऋषिभिः' [ऋग्वेद १.१]इत्यत्र क्रियापदाश्रवणात् पादव्यवस्था न प्राप्नोति । उक्तमत्र भाष्यकृतैवार्थग्रहणम्-अत्रानुवादो वृत्तवशेनापि भवतीति । गीतिषु सामाऽऽ ख्येति । यस्याम् ऋचि सामोत्पन्नं सा शुद्धा पठ्यमाना न सामशब्दव्यपदेशं लभते । तच्च साम ऋगन्तरेऽपि गीतं तच्छब्देन व्यपदिश्यते । तथाहि-रथन्तरमनेन श्लोकेन गीतमिति व्यवहारस्तदेवमन्वयव्यतिरेकाभ्यां गीतेरेव सामत्वं न ऋग्विशेषस्य । [शेषे यजुरिति ]या न गीतिः न च ऋक् तत्र 'यजुः'शब्दः ।
मेदसा तर्पयेदिति । योऽथर्वाङ्गिरसः पठति तेन देवा मेदसा पितरश्च मधुसर्पिा तर्पिता भवन्तीत्यर्थः । . सम्प्रदायो गुरुमुखाद् विशिष्टेन रूपेण ग्रहणम् , तत्प्रयोजनं यस्याविघ्नार्थस्य 'अस्यां तिथावध्येयम्' 'अस्यां न' इत्येवंरूपस्य धर्मजातस्य, तत् साम्प्रदायिकम् ।
ब्रह्म ह वा इति । एतद् ब्राह्मणवाक्यमध्ये “सोऽपः स्पृष्ट्वा तासु स्वां छायामपश्यत् , तां चेक्षमाणस्य [94A]स्वं रेतोऽस्कन्दत् तदप्सु प्रत्यतिष्ठत्" इति प्रक्रम्य "ताभ्यः श्रान्ताभ्यः तप्ताभ्यः संतप्ताभ्यो यद् रेत आसीत् तदभृज्यत, तस्माद् भृगुः समभवत् , तत्भगो गुत्वम्" इत्युक्त्वा "तदथर्वाऽभवत्" इति भृगोरेवाथर्वतामभिधायाह 'तमाथर्वणम्' इति [गोपथब्रा० पूर्वभाग प्र०१] । अभ्यश्राम्यदभ्यत पत् समतपदिति । गायत्र्यादिच्छन्दसां पुनः पुनः प्रयोगात् तदभिमानिनीनां देवतानां पीडातः श्रमः, गायत्र्याघभिमानिनीनां च देवतानां श्रमादथर्ववेदाभिमानिनीनामपि देवतानां श्रमः, गायत्र्यादिदेवतासम्बन्धात् तासाम्; अतोऽनेन द्वारेणाथर्वाणमभ्यश्रा म्यदखेदयत् । अन्तर्भूतण्यर्थाः प्रयोगा अमी; अभ्यतपत् विशिष्टफलनिष्पत्तये समालोचयत् प्रावर्त्तयद्वा । श्रमजननादेव च समतपत् समतापयद् उत्पन्नसन्तापमकरोत् । तस्मात् तथाश्रान्तादत एव तप्तात् संतप्तात् । यथा सम्बन्धिपीडया पीडिताः
१-३ मी०सू० २.१. ३५-३७ । शाबरभा० २.१. ३७ । ४ याशवल्क्य स्मृ० १.४४. । ५-७ गोपथब्रा० पूर्वभा०प्र० १ (पृ. २, ४)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org