________________
न्यायसिद्धान्तदीपे
किञ्च । किं' नमस्कारत्वम् । न तावद्विघ्नवारकत्वम् । अदृष्टादावतिव्यापकत्वात् । नापि तद्वारणासाधारणकारणत्वम् । अनुगतरूपाऽपरिचये कारणत्वस्यैव दुर्ग्रहत्वात् मङ्गलमात्रसाधारणत्वाच्च । न च कायिकादित्रिकसाधारणजातिविशेष एव नमस्कारत्वं साङ्कर्यप्रसङ्गात् । एवं मङ्गलत्वमप्यशक्यनिर्वचनम् । विघ्नोत्सारणासाधारकारणत्वस्यानुगतस्यानुपस्थितावपरिच्छेधत्वात् । न च श्रुतौ स्मृतौ वा मङ्गलशब्दाभिधेयं यत् तदेव मङ्गलम् । प्रवृत्तिनिमित्तैस्यापि तदभिधेयत्वेन मङ्गलत्वप्रसङ्गात् । न च मङ्गलशब्दाभिधेयं विशेष्यं यत् तदेव मङ्गलम् । एतावदप्रतिसन्धानेऽपि मङ्गलव्यवहारात् । अन्यस्यापि विशेष्यत्वे सति मङ्गलशब्दाभिधेयत्वसम्भावनायां संदिग्धव्यभि चारात् । अपि च विघ्नवतो नमस्कारादावधिकारस्तथा चाधिकारनिश्चयं विना कथं प्रवृत्तिः १ न चात्मनो विघ्नवत्त्वं केनापि प्रमाणेन प्रथमत एव तेनाव - धारितम् । न च विघ्नज्ञानवतोऽधिकारित्वं संशयस्यापि ज्ञानत्वमस्त्येव, तथा च विघ्नसंशयेऽप्यधिकाराप्रच्यवात् प्रवृत्तिरुपपन्नैवेति वाच्यम् । एवं हि सति वस्तुतो निर्विघ्नेन विघ्न - संशयवता समारब्धान्मङ्गलात् फलोदयप्रसङ्गः । अधिकारिणा कृतस्य साङ्गस्य कर्मणः फलोपधाननियमादिति ॥ छ ॥
अत्रोच्यते । क्षीणदोषपुरुषत्वमेव शिष्टत्वम् । तथाभूतत्वं च मन्वादीनामेव सुप्रसिद्धम् । तदाचारत्वं चे तेन परलोकानुकूलतया क्रियमाणत्वं " तेन प्रतिबन्धकदुरितवारणमुद्दिश्य क्रियमाणत्वं वा । अश्वमेधकारीर्यादौ च व्याप्तिः सुप्रसिद्धा । यत् कार्यं प्रति यस्य कारणत्वमन्वयव्यतिरेकोपजीवनेन गृह्यते तत्कार्यमुद्दिश्य शिष्टेन क्रियमाणत्वमेव शिष्टाचारत्वम् । एवमन्यदप्यूहनीयम् ।
नच शिष्टाचारत्वेनैव नमस्कारादीनामभीष्टसमाप्त्युपायतानुमान - सम्भवेन" किमिति तदर्थं श्रुतिकल्पनमिति युक्तम् । व्याप्तिबलेन श्रुतेः कल्पनात् । तथाभूताचारस्य श्रुतिव्याप्तत्वात् । न च प्रमत्तनास्तिकाद्यनुष्ठितकर्मसमाप्तौ व्यभिचारदर्शनात् अकारणत्वं मङ्गलस्येति युक्तम् । तत्रापि पूर्वजन्मकृतमङ्गले तत्कारणत्वस्येष्यमाणत्वात् ।
93
१. Padds नाम । २. P reads निवारकत्वम् । ३. Phas (अ) नुगतरूपस्य । 8. M, drops च । ५. Preads मङ्गलशब्दप्रवृत्तिनिमित्तस्यापि । ६. M, reads संदिग्धव्यभिचारित्वात् । ७. M reads अधिकारत्वं । CM drops विघ्न । ९. M. 1 drops च । १०. M adds तेन तदानीमसाक्षात् क्रियमाणफलानुकूलतया क्रियमाणत्वं वा । ११. P_and_M, read सम्भवे । १२. P and M, drop - नास्तिक । १३. P reads तदकारणत्वं । १४. P reads पूर्वजन्मकृततत्कारणत्वस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org