________________
न्यायसिद्धान्तदीपः ।
(१) मङ्गलवादः
Jain Education International
ध्वंसितापरसिद्धान्तध्वान्तं गौतममतैकसिद्धान्तम् । नत्वा नित्यमधीशं शशधरशर्मा प्रकाशयति ॥ १॥ न्यायसिद्धान्तदीपोऽयं कथासु विजिगीषुभिः । धारणीयः प्रयत्नेन सतर्कस्नेहसुप्रभः ||२॥
इह तावदभीष्टकर्मणो निर्विघ्नपरिसमाप्तिमुद्दिश्य बहुशः प्रवर्त्तमाना विनायकाचनदधिदुर्वादौ मङ्गले दृश्यन्ते प्रेक्षावन्तः । तत्र मङ्गलस्य तद्विशेषस्य वा नमस्कारस्य प्रतिबन्धक दुरिताद्युत्सारणद्वाराऽभीष्टसमाप्तिं प्रति कथमुपायत्वं ग्राह्यम् । श्रुतेरिति चेन्न । तथाविधश्रुतेरनाकलनात् । शिष्टाचारात् तदनुमानमिति चेन्न । शिष्टाचारस्यानिर्वचनात् । तथाहि किं शिष्टाचारत्वं वेदप्रामाण्याभ्युपगन्तृपुरुषोत्पाद्यमानत्वं वा १ उद्देश्यविशेषितमेतदेव वा २ एवम्भूतपुरुषेण वेदमूलकत्या स्वीक्रियमाणत्वं वा ३ वेदमूलकतया प्रमीयमाणत्वं वा ४ वेदोपदिष्टहेतुभावक्रियावत्त्वमेव वा ५ अन्यद्वा ६ । तथाविधपुरुषक्रियमाण जलताडनस्यापि शिष्टाचारत्वप्रसङ्गात् । तथा च तेनापि वेदानुमानं स्यात् । नापि द्वितीयः । घटादेरपि शिष्टाचारत्वप्रसङ्गात् । न तृतीयः । अवेदमूलकेऽपि वेदमूलकतया तथाविधभ्रान्त पुरुषस्वीकारसम्भवेनाऽतिव्यापकत्वात् । न तुरीयः । प्रकृते तदसिद्धेः । तथाहि - नमस्कारो वेदबोधिताभीष्टोपायताकः वेदमूलकतया प्रमीयमाणत्वाद् इत्यत्र साध्यसमो हेतुः । अत एव न पञ्चमोऽपि । नान्त्यस्तद निर्वचनात् ।
किञ्च शिष्टाचारत्वेनैव तदनुमानसम्भवात् अलं तेन श्रुतिमनुमाय तयाऽभीष्टोपायताऽवगमकल्पनया । किञ्च, मङ्गलस्याभीष्टसमाप्ति प्रति कारणत्वे कथं तद्द्व्यतिरेकेण प्रमत्तनास्तिकाद्यनुष्ठिताभीष्टसमाप्तिः । कथं वा साङ्गे तस्मिन्ननुष्ठितेऽपि कार्यानुदयः श्रौतात् साङ्गात् कर्मणः फलावश्यम्भावात् । अन्यथा फलव्यभिचारशङ्कया यागादौ निःशङ्को न प्रवर्त्तेत । १. P drops अपि Pn- जलताडनादेरपि । २. P reads ३. Pn- न चतुर्थः । ४. M, has प्रतीयमानत्वात् । ५. Pn - शिष्टाचारेणैन । drops कथं । ७. P omits अभीष्ट । ८. Preads. ० भावनियमात् ।
For Private & Personal Use Only
द्वितीयः । ६. M 1
www.jainelibrary.org