SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्राद्धजीतकल्पे सप्तविंशतिर्णीष्मे च भवन्तीति सप्तविंशतिखिभिर्गुणिता एकाशीतिर्भदा भवन्तीति । तेर्षा च सप्तविंशतेनितपःस्थानानां नामान्याह-तत्र गुरुपक्ष एकोऽपि नवधा । तद्यथा-उत्कृष्टोत्कृष्टः उत्कृष्टमध्यमः उत्कृष्टजघन्यः, मध्यमोत्कृष्टः मध्यममध्यमः मध्यमजघन्यः, जघन्योत्कृष्टः जघन्यमध्यमः जघन्यजघन्यश्चेति । एवं लघुपक्षोऽपि नवधा, लघुस्वपक्षोऽपि चैवमेव नवधा सर्वमीलने सप्तविंशतिर्भेदा भवन्ति । भणितं च 'गुरु-लह-लहसगपक्खे इक्तिको नवविहो मुणेयव्यो । उकोसुकोसो वा उक्कोसो मज्झिमजहनो ॥१॥ मझुकोसो मज्झिममज्झो तह होइ मज्झिमजहन्नो । इअ नेओ जहन्नो वि अ उक्कोसो मज्झिमजहन्नो। गुरुपक्खे नव एए नव चेव य हुंति लहुयपक्वेवि । नव चेव लहुसपक्खे सत्तावीसं भवंतेए' ॥३॥ इति गाथात्रयार्थः ॥ १२९-३०-३१ ।। अर्थतेषु गुरु-लघु-लघुस्खलक्षणेषु त्रिषु पक्षेषु सप्तविंशतिविधं दानतपो व्यक्तीकरोति तहिं वारस दसमट्टम जिट्टे मज्झि दसमटूमा छठें । अट्ठमछठचउत्थं जहन्नतिगि दाण गुरुपक्खे ॥ १३२ ॥ व्याख्या-तत्र पक्षत्रये क्रमेण तपः प्रतिपाद्यते, यथा-इह गुरुपक्षे पाण्मासिकपञ्चमासिकाख्योत्कृष्टापत्तौ सत्यामुत्कृष्टोत्कृष्टं द्वादशं तपः , उत्कृष्टमध्यमं दशमम्, उत्कृष्टजघन्यमष्टमम् । चातुर्मासिक. त्रिमासिकाख्यमध्यमापत्तौ मध्यमोत्कृष्टं दशमं, मध्यममध्यममष्टमं, मध्यमजघन्यं षष्ठम् । द्विमासिकगुरुमासाख्यजघन्यापत्तो जघन्योत्कृष्टमष्टमं, जघन्यमध्यमं षष्ठं, जघन्यजघन्यं चतुर्थम् । एवं गुरुपक्षे नवधा दानतपः प्रोक्तमिति गाथार्थः ॥ १३२ ॥ अथ लघुपक्षे नवधा दानतपः प्रतिपादयति इह दसमठमछट्ठा अट्ठमछट्ठा चउत्थया कमसो । छठचउत्थायाम लहुपकखे दाण वासासु ॥ १३३ ॥ व्याख्या-लघुपक्षे लघुमासाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टं दशमम् , उत्कृष्टमध्यममष्टमम् , उत्कृष्टजघन्यं षष्ठम् । मिन्नमासाख्यमध्यमापत्तौ मध्यमोत्कृष्टमष्टमं, मध्यममध्यमं षष्ठं, मध्यमजघन्यं चतुर्यम् । विशत्याख्यजघन्यापत्तौ जघन्योत्कृष्टं षष्ठं, जघन्यमध्यमं चतुर्थ, जघन्यजघन्यमाचामाम्लम् । इत्यमुना प्रकारेण लघुपक्षे क्रमेण दानतपो नवविधमुक्तम् । एतच दानतपो वर्षास्ववगन्तव्यम् । पूर्वगाथोक्तमपि अग्रेतनगाथोक्तमपि चेति गाथार्थः ॥ १३३ ।। अथ लघुस्खपक्षे दानतपो नवविधं प्रतिपादयति अटूठमछठचउत्थं छटठचउत्थंविलं लहुसपकखे । तह खवणंविल आसण इअ अदफंति सगवीसा ॥१३४ ॥ व्याख्या- लघुस्वपक्षे पञ्चदशास्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टमष्टमम् , उत्कृष्टमध्यमं षष्टम् , उत्कृष्टजपन्यं चतुर्थम् । दशकाख्यमध्यमापत्तौ मध्यमोत्कृष्टं षष्ठं, मध्यममध्यमं चतुर्थ, मध्यमजवन्यमाचामाम्लम् । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002631
Book TitleSaddha Jiyakappo
Original Sutra AuthorN/A
AuthorDharmghoshsuri
PublisherJain Shwetambar Murtipujak Sangh Surat
Publication Year2006
Total Pages96
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy