________________
नवविधतपोव्यवहारः व्याख्या- एष नवविधतपोव्यवहारः सङ्खपतनिधा-उत्कृष्टो मध्यमो जघन्यश्च । तत्र गुरुतम-गुरुतर-गुरु-रूपभेदत्रयात्मको गुरुपक्ष उत्कृष्टः, लघुतम-लघुतर-लघु-रूपभेदत्रयात्मको लघुपक्षो मध्यमः, लघुस्वतम-लघुस्वतर-लघुस्वाख्यत्रिभेदो लघुस्वपक्षो जघन्य इति । यदाह
'नवविहववहारे सो संखेवेणं तिहा मुणेयव्वो। उक्कोसो मज्झिमगो जहन्नगो चेव तिविहो सो ॥१॥ उक्कोसे गुरुपक्खो लहुपक्खो मज्झिमो मुणेयव्यो । लहुसपक्खो जहन्नो तिविगप्पो एस नायव्वो' ॥२॥ व्याख्या-इदानी प्रकृतगाथाक्षरार्थः-गुरुः१ लघुः२ लघुस्वः३ लघुस्वशब्दश्चतुर्लघुकार्थः । स्वशब्दस्याल्पार्थकप्रत्ययार्थत्वादित्येते त्रयः पक्षाः पृथक-प्रत्येकं त्रिधा भवन्ति । त्रैविध्यं चैतेषां दर्शितमेवेति गाथार्थः ।।
अथ नवविधापत्तितपोव्यवहारं दर्शयति
गुरुलहु छप्पणमासा चउतिगमासा दुमासगुरुमासो । लहुमास भिन्न वीसं पनरस दस पण तिपक्खकमा ॥ १२९ ॥ उक्कोसमझहीण आवत्ति नव तिदाणकालतिगे । उक्कोसुक्कोसुक्कोसमज्झ उक्कोसगजहन्ना ॥ १३० ॥ मझुक्कोसा मज्झिममज्झिमगा तह य मज्झिमजहन्ना ।
जह उक्कोस जहनगमज्झा य जहनगजहन्ना ॥ १३१ ॥
ठयाख्या-तिपक्खत्ति । प्राकृतत्वात् सप्तमीसुपो लोपात्तेषु त्रिषु पक्षेषु गुरुलघुलघुखलक्षणेषु एता आपत्तय उत्कृष्टमध्यमजघन्यरूपाः क्रमादवगन्तव्याः । तथाहि-गुरुपक्षे गुरुलघु पाण्मासिकरूपा उत्कृष्टापत्तिः। अयमर्थः-गुरुपक्षे उत्कृष्टापत्तौ गुरुभावेन षण्मासा लघुभावेन पञ्च मासाश्च भवन्तोति । एवमग्रेतनापत्तिद्वयेऽपि भावनो कार्या । तथा गुरुपक्ष एव चतुर्मासिकत्रिमासिकरूपा मध्यमापत्तिः, द्विमासिकगुरुमासरूपा जघन्यापत्तिः । तथा उत्कृष्टापत्तौ लघुपक्षे लघुमासः सार्द्धसप्तविंशतिदिनरूपः उत्कृष्टापत्तिः । मिन्नमासः पञ्चविंशतिदिनानि मध्यमापत्तिः । विंशतिदिनानि जघन्यापत्तिः । तथा उत्कृष्टापत्तावेव लघुस्वपक्षे पञ्चदश दिनान्युत्कृष्टापतिः। दश दिनानि मध्यमापत्तिः । पञ्च दिनानि जघन्यापत्तिरित्येवं नवविधापत्तितपोरूपः श्रुतव्यवहारो दर्शितः । भणितं च'गुरुपक्खे उक्कोसो मज्झजहन्नो य एव लहुवि । एमेव य लहुसे वी इय एसो नवविहो होई ।।१।। गुरुपक्खे छम्मासो पणमासो चेव होइ उक्कोसो । मज्झो चउतिमासो दुमासगुरुमासग जहन्नो ॥२॥ लहु-भिन्नमास-वीसा लहुपक्खोक्कोसमज्झिमजहन्ना । पनरसदसगं पणगं लहुसुकोसाइ तिविहो सो ॥३॥ आवत्तितवो एसो नवभेओ वण्णिओ समासेण । अहुणा उ सत्तवीसो दाणतवो तस्सिमो होइ ।।४।।
तथा — तिदाण 'त्ति । तस्यापत्तितपसो नवविधस्य दानतपत्रिविधमुत्कृष्टमध्यमजघन्यलक्षणं सप्तविंशतिभेदं भवति । एकैकस्यामापत्तौ त्रीणि त्रीणि दानतपःस्थानानि भवन्तीति । तानि दानस्थानानि नवापत्तिमिर्गुणितानि सप्तविंशतिर्मवन्तीति भावः । 'कालतिग'ति । तानि पुनः प्रत्येकं कालत्रिके वर्षा शिशिरग्रीष्मलक्षणे भवन्ति । अत्रायमर्थः-सप्तविंशतिर्दानस्थानानि वर्षासु, सप्तविंशतिः शिशिरे,
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org