________________
प्रायश्चित्तस्य भेदाः पञ्चकाख्यजघन्यापत्तौ जघन्योत्कृष्टं चतुर्थ, जघन्यमध्यममाचामाम्लं, जघन्यजघन्यमेकाशनकम् । इत्येवम॰पक्रान्त्या वर्षासु सप्तविंशतिधा दानतपः । यदाह-बारसमदसममद्रम-छप्पणमासेसु तिविहदाणेणं । चउतेमासे दसमदमछ? उक्कोसगाइ तिहा ॥१॥ एमेवुक्कोसाई दुमासगुरुमासिए तिविह दाणं । अट्ठमछट्टचउत्थं नवविहमेयं तु गुरुपक्खे ॥२॥ दसमं अट्ठमछठें लहुमासुक्कोसगाइ तिह दाणं । अट्ठमछठचउत्थं उक्कोसाई अ तिह मिन्नं ॥३॥ छट्ठचउत्थायामं उक्कोसाईण दाण वीसाए । लहुपक्खंमि नवविहो एसो बीओ भवे नवगो ॥४॥ अट्ठमछट्ठचउत्थं एसुक्कोसाइ दाण पन्नरसे । छठ्ठचउत्थायामं दससू तिविहे य दाण भवे ॥५॥
खवणायामेगासण तिविहुक्कोसाइ दाण पणगंमि । लहुसे स तइअ नवगो सत्तावीसे सवासासु।।६।। इति । अथ केयम पक्रान्ति म । अर्द्धस्याऽसमप्रावभागरूपस्य एकदशस्य एकपदात्मकस्यापक्रमणंनिवर्त्तनं शेषस्य तु द्वयादिपदसङ्घातात्मकस्य एकदेशस्यानुवर्त्तनं यस्यां रचनायां सा समयपरिभाषयाऽर्द्धापक्रान्तिरुच्यते । यथा वर्षासु गुरुतमे उत्कृष्टतो द्वादशमं, मध्यमतो दशमं, जघन्यतोऽष्टमम् । एषां मध्यादेकदेशो द्वादशमलक्षणोऽपक्रामति, दशमाष्टमे गुरुतरं गच्छतः अग्रेतनं च षष्ठं मील्यते । ततश्च गुरुतरे उत्कृष्टतो दशमं, मध्यमतोऽष्टमं, जघन्यतः षष्ठम् । पुनरेषां मध्यादेकदेशो दशमलक्षणो निवर्तते, अष्टमषष्ठे गुरुकं गच्छतः अग्रेतनं च चतुर्थं मील्यते । ततश्च गुरुके उत्कृष्टतोऽष्टमं, मध्यमतः षष्ठ, अघन्यतश्चतुर्थमिति । यथा चेयमेकाशीतिके दानतपोयन्त्रके वर्षाधनवकेऽर्धापक्रान्तिर्दर्शिता । तथैव सर्वेष्वपि नवकेषु विलोकनीया । यदाह-सिसिरे दसमाईणं चारणभेएण सत्तवीसेणं । ठायइ पुरिमड्ढंमी अड्ढक्कंतीइ तह चेव ॥१॥
अट्ठमगाई गिम्हे चारणभेएण सत्तवीसेण । तह चेव अड्ढकंती ठायइ नीब्विइए नवरं ॥२॥ इत्युक्ता वर्षासूत्कृष्टाद्यापत्तिनवके सति दानतपसो द्वादशममादौ कृत्वा एकाशनान्ताधारणिकया सप्तविंशतिर्भदा इति गाथार्थः ॥ १३४ ॥
सम्प्रति शिशिरे प्रीष्मे च तानेव दानतपसः सप्तविंशतिभेदानतिदिशन्नाह
दसमाई पुरिमंता सिसिरे २७ गिम्हिट्ठमाइ निविअंता २७ ।
असहि इक्किक्क हासो जा पंतिसु अंति इकिकं ॥१३५ ॥
व्याख्या-'इअ अड्ढकंति सगवीसा' इति पदमत्राऽप्यनुवर्तते । ततोऽयमर्थः-इत्येवं पूर्वोक्तप्रकारेणापक्रान्त्या यथा वर्षासूत्कृष्टाद्यापत्तिनवके सति दानतपसो (द्वा) दशममादौ कृत्वा एकाशनान्ताः सप्तविंशतिभेदाश्चारणिकया कथिताः तथा शिशिरेऽपि दशमादयः पुरिमान्ता कार्याः-दशममादौ कृत्वा पुरिमार्द्धान्ता इत्यर्थः । तथा ग्रीष्मेऽष्टमादयो निर्विकृतिकान्ताः सप्तविंशतिभेदाः कार्याः । यन्त्रकस्थोपनातश्च ज्ञेया इति । वर्षाशिशिरग्रीष्माणां च सप्तविंशतित्रयमीलने एकाशीतिर्दानतपसो भेदा भवन्ति । अर्द्धापक्रान्तिश्चेयम्-' अर्द्धस्यासम' इत्यादि प्राग्वत् । अत्र सूत्रानुपात्तान्यपि सौकर्यार्थ
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org