________________
५६
श्राद्धजीतकल्पे व्याख्या-प्रदीपन-धाटिप्रपात-ग्रामभङ्गादिषु प्रमादानाभोगाभ्यां प्रतिमाया भङ्गे दाहे-नाशने वा । तथा पट्टिका-पुस्तकादीनामपि भङ्गादिषु नवकारणपूर्व-तानि प्रतिमादीनि नवानि कारयित्वेत्यर्थः । 'लहुगाई 'ति । चतुर्लघुचतुर्गुरुषड्लघूनि क्रमाद् भवन्ति । मतान्तरेण पुनः प्रतिमायांः प्रदीपनादौ ज्वलने नमस्कारलक्षम् । हस्ताद्यवयवभङ्गे तु नमस्कारदशसहस्रीति गाथार्थः ॥ ३७ ॥
अथ यतिद्रव्यपरिभोगे प्रायश्चित्तमाह
मुहपत्ति-आसणाइसु मिन्नं जलन्नाईसु गुरु लहुगाइ ।
जइदव्वभोगि इय पुण वत्थाइसु देवदव्वं वा ॥ ६८ ॥
व्याख्या-मुखवत्रिकाऽऽसनशयनादिषु, अर्थाद् गुरुयतिसत्केषु परिभुक्तेषु मिन्नम् । तथा 'जलन्नाईसु 'त्ति । यतिसत्के जले अन्ने, आदिशब्दात् वस्त्रादौ कनकादौ च ।
'धर्मलाभ इति प्रोक्ते दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय ददौ कोटि नराधिपः' ॥ १ ॥ इत्यादिप्रकारेण केनापि साधुनिश्रया कृते लिङ्गिसत्के वा परिभुक्ते सति 'गुरुलहुगाइ 'त्ति । क्रमेण गुरुमासश्चतुर्लघव आदिशब्दाचतुर्गुरवः षड्लघवश्च स्युः । अयमर्थः-गुरुसत्के जले परिभुक्तेरी अन्ने वत्रादौ कनकादौ ६ प्रायश्चित्तानि भवन्ति । यतिद्रव्यभोगे ‘इय 'त्ति । एवं प्रकारः प्रायश्चित्तविधिरवगन्तव्यः । अत्रापि पुनर्वस्त्रादौ देवद्रव्यवत्-वक्ष्यमाणदेवद्रव्यविषयप्रकारवत् ज्ञेयम् । अयमर्थःयत्र गुरुद्रव्यं भुक्तं स्यात् तत्राऽन्यत्र वा साधुकार्ये वैद्याद्यर्थं बन्दिग्रहादिप्रत्यपायापगमाद्यर्थं वा तावन्मित. वस्त्रादिप्रदानपूर्वमुक्तं प्रायश्चित्तं देयमिति गाथार्थः ॥ ६८ ॥
अथ साधारणदेवद्रव्यादिविषयं प्रायश्चित्तमाह
साहारण-जिणदव्वं जं भुत्तं असण-वत्थ-कणगाई ।
तत्थन्नत्थ व दिन्ने चउलहु-चउगुरुअ-छल्लहुगा ॥ ६९ ॥
व्याख्या-साधारणद्रव्यं जिनद्रव्यं च यत्-यावन्मानं भुक्तं-स्वकार्ये व्यापारितं स्यात् । किं तदित्याह-अशनं-नैवेद्यादि वखं-परिधापनिकादि कनकादि-कनकरूप्यरूपकमौक्तिकादीनि । तस्मिँश्च तावन्मात्रे साधारणद्रव्ये देवद्रव्ये वा त्रिविधे जघन्यमध्यमोत्कृष्टरूपेऽशनादौ बखादौ कनकादौ च तत्रतस्मिन्नेव देवस्थाने चैत्यादौ अन्यत्र वा चैत्यादौ दत्ते सति चतुर्लघु चतुर्गुरुवा षड्लघूनि प्रायश्चित्तानि यथाक्रमं भवन्ति । तस्मिन् तावन्मात्र पुनरनर्पिते एतत्प्रायश्चित्तागीकरणेऽपि न शुद्धिरिति भावः । देवरथहारवणे पट्टिकापुस्तिकाकवलीजपमालानाशने कचिद् गुरुमासो दृश्यते । कचित्तु जपमालानिर्गमने एक कल्यम् । सम्यक्त्वविषयाः पश्चाप्यतिचारा दर्शनाचारातिचारेष्वेवान्तर्भूता इति न तेषां पृथक प्रायश्चित्तं प्रतिपादितमिति गाथार्थः ।। ६९ ।।
___ उक्तं दर्शनाचारातिचारषियं प्रायश्चित्तं । सम्प्रति चारित्राचारातिचारविषयप्रायश्चित्तप्रतिपि. पादयिषया प्रथमं प्रथमाणुव्रतविषयं तदाह
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org