________________
जिनप्रतिमादेवगुरुस्थापनाविषयं प्रायश्चित्तम् पूअंतपडिअबिंबे सासंचलकुंपिआइ-संघट्टे ।
लहु-गुरुमासो थुक्काइ अविहि उज्जालणाईसु ॥६४ ॥
व्याख्या- पूज्यमाने-अर्यमाने, उपलक्षणत्वात् स्नप्यमाने, स्थानात स्थानान्तरं वा नीयमाने बिम्बे-जिनप्रतिमारूपे प्रमादेन हस्तात्पतिते सति । तथा श्वासानलकुम्पिकादिसट्टे । श्वास-आस्यनासिका विनिर्गतः पवनः , अञ्चल:-परिधानादिवस्त्रप्रान्तः, कुम्पिका-वासकर्पूरादिभाजनविशेषः, आदिशब्दात्कल. शभृङ्गारधूपदहनपिङ्गानिकादीनां परिग्रहः । ततस्तेषां सट्टे-बिम्बस्य स्पर्शे लघुमासः। तथा 'गुरुमासो'त्ति। गुरुमासः प्रोयश्चित्तं भवति । कस्मिन् । वदनोत्यनिष्ठ यूतलवस्पर्श, आदिशब्दाचरणघटनादौ । पुनः कस्मिन् ? अविधिना जिनप्रतिमोद्योतने, आदिशब्दादधौतपोतिकया पूजनादौ चेति गोथार्थः ॥ ६४ ॥
अथ देवगुर्वोराशातनायां सामान्येन यत्प्रायश्चित्तं भवति, गुरु-विषयायां चाशातनायां विभागतोऽपि यत् प्रायश्चित्तं स्यात्तदाह
सामण्णं दुसु वि गुरू तिविहं गुरुणो पयाइ-संघट्टे ।
लहु-गुरु-चउलहु पणगं गुरुसंथाराइ-संघट्टे ॥६५॥ व्याख्या-सामान्येन-जघन्यादिविवक्षामन्तरेण 'दुसु वि 'त्ति । द्वयोरपि-देवगुर्वाशातनयोः कृतयोर्गुरुमासः प्रायश्चित्तं भवति । विभागतस्तु गुरोः पादादिना सट्टे जघन्याशातनायाम, आदिशब्दात् श्लेष्मनिष्ठीवनलवस्पर्शनादौ मध्यमाशातना, गुर्वादेशाकरणविपरीतकरणापकर्णन-परुषभाषणादावुत्कृष्टाशातनायां च क्रमेण त्रिविधं प्रायश्चित्तं भवति । किं तदित्याह-'लहुगुरुचउलहु'त्ति । लघुमास-गुरुमासचतुर्लघूनि । तथाऽनाभोगादिना गुरोः संस्तारकस्यादिशब्दाद् गुरुपरिभोग्योपकरणाऽऽसनादेश्चरणादिना सङ्घ? ' पणगं' मिन्नमासः प्रायश्चित्तं भवतीति गाथार्थः ।। ६५ ।।
अथ स्थापनाचार्यविषयं प्रायश्चित्तमाह
ठवणगुरुमि अठविए ठविए अ कमा पयाइलग्गंमि ।।
भिन्न-लहु पडणाइसु लहु-गुरु तह नासिए मिनं ॥ ६६ ॥ व्याख्या-स्थापनागुरावस्थापिते-ऽकृतमन्त्रन्यासे, स्थापिते-कृतमन्त्रन्यासे च पादादौ लग्ने सति क्रमेण भिन्नं लघुमासश्च । तथा तयोर्हस्तात् स्थापनाचार्यस्थानाद्वा प्रमादेन पातने. आदिशब्दादवज्ञामोचनादौ क्रमेण लघुमासगुरुमासौ। तथा नाशिते स्थापनाचार्ये भिन्नम् । मतान्तरेण तु गुरुमासः । अप्रत्युपेक्षिते मिन्नम् , अप्रत्युपेक्षितस्थापनाचार्यपुरतोऽनुष्ठानकरणे लघुमासः, स्वाध्यायशतं वा केचित् प्रतिपादयन्तीति गाथार्थः ॥ ६६ ॥
अथ जिनप्रतिमाशातनाविशेषविषयं प्रायश्चित्तमाह
पडिमाइ भंगदाहे पलीवणाइसु पमायणाभोगा । पट्टिअ-पुत्थाईण वि नवकारणपुव्व लहुगाई ॥ ६७ ॥
Jain Education International 2010005
For Private & Personal use only
www.jainelibrary.org