________________
पृथिव्यादिसङ्घट्टादि विषयं प्रायश्चित्तम् पुढवाइ-घट्टणाऽगाढ गाढपीडा-वहे अकज्जमि ।
भिन्नं लहु-गुरु लहुगा दस पुरओ सव्वेहिवि दसगं ॥ ७० ॥
व्याख्या-इह च निषिद्धस्याचरणे तावत् प्रायश्चित्तं । गृहिणश्च सार्थिका स्थावरकायहिंसा न निषिद्धा, निरर्थिका पुनर्निषिद्धैव । यदुच्यते ग्रन्थान्तरे
'थूला सुहमा जीवो संकप्पारंभओ अ ते दुविहा । सोवराह निरवराहा सोविक्खा चेव निरविक्खो' ॥ १ ॥ अस्या अक्षरगमनिका-इह प्राणिवधो द्विविधः-स्थूलः-स्थूलजीवानां सूक्ष्मः-सूक्ष्म जीवानाम् । तत्र स्थूला-द्वोन्द्रियादयः सूक्ष्माश्चेकेन्द्रियाः, न तु सूक्ष्मनामकर्मोदयवर्तिनः । तेषां उपघाताऽ. भावात् स्वयमायुःक्षयेणैव मरणात् । तत्र गृहस्थानां स्थूलप्राणिवधानिवृत्तिः न तु सूक्ष्मवधीत । पृथिवीजलादिषु सततमारम्भप्रवृत्तत्वात् । विंशोपकाः १० । स्थूलप्राणिवधोऽपि द्विधा-सङ्कल्पज आरम्भजश्च । तत्र सङ्कल्पान्-मारयाम्येनमिति मनःसङ्कल्पाज्जातः सङ्कल्पजः । आरम्भजश्च कृष्याद्यारम्भप्रवृत्तस्य द्वीन्द्रियादिव्यापादनम् । तत्र श्राद्धानां सङ्कल्पजोत् निवृत्तिरस्ति न पुनरारम्भजात् । अन्यथा शरीरकुटुम्बनिर्वाहाभावात् । वि०५ । सङ्कल्पजोऽपि द्विधा-सापराधो निरपराधश्च । तत्र निरपराधान्निवृत्तिन सापराधात् । सोपराधे तु गुरुलाघवचिन्तनं-यथा गुरुरपराधो लघुर्वा । वि०२३ । सापराधेऽपि सापेक्षनिरपेक्षक्रिययोः सर्वत्र सापेक्षेणैव भवितव्यं न तु निरपेक्षेण तस्य दयापरिणामाभावात् । वि० ११ एवं सर्वप्रकारैर्जीववधनिवृत्तेर्विशतिविंशोपकः साधुः । सपादविंशोपकश्च श्राद्धो दयाव्रतमाश्रित्येत्यर्थः । ततोऽकार्य-कारणाभावे पृथिव्यादीनां-पृथिव्यप्तेजोवायु-प्रत्येकवनस्पतीनां मनाक् संस्पर्शनं-सङ्घट्टनम् । अत्राह-ननु पृथिव्यादीनां चतुर्णा घटते सङ्घट्टनम् । अप्कायस्य तु कथं सङ्घट्टनं सम्भवति ? तस्य द्रवरूपत्वेन स्पर्शमात्रेऽपि विनाशसम्भवात् । उच्यते-घटादिस्थस्याप्कायस्यापि मनाक् करचरणादिना चालने सङ्घट्टः सम्भवति । पीडा-परितापनमुच्यते । तच्च द्विधा-अगाढं गाढं च । तत्र संमर्दनचालनाबहुतरं पीडोत्पादनमगाढं, बहुतमपीडोत्पादनं च गाढम् । वघ- उपद्रवः सर्वथा जीवविनाशः । स च पृथिव्यन्योरत्यन्तसम्मर्दनाद्यैरप्कायस्य तु वह्नितापन-दण्डाद्यभिघातनपातनपादादि-क्षालनादिना । वायोः तालवृन्ताभिघातादिना । वनस्पतेः पत्रपुष्पाङ्कुरादित्रोटनादिभिः । ततश्चैषां पृथिव्यादीनां पञ्चानामपि प्रत्येकं सङ्घट्टने मिन्नमासः । अगाढपीडायां लघुमासः । गाढपीडाया गुरुमासः । वघे चतुर्लघु । 'दस पुरओ' सव्वेहि वि दसगं 'ति । दशानां परतस्तु सर्वेषामप्येकादशाद्यसङख्येयपर्यन्तानां सङ्घट्टनादिषु दशकमेव स्वप्रायश्चित्तानां दीयते। तथा चोक्तं यतिजोतकल्पवृत्तौ
'एगाइ-दसतेसु एगाइदसतयं सपच्छित्तं । तेण परं दसगं चिय बहुएसु वि सगलविगलेसु' ॥१॥ अस्या अर्थः-एकादिषु दशान्तेषु पृथिव्यादिषु द्वीन्द्रियादिषु वोपहतेषु एकादि-दशान्तं स्वप्रायश्चित्तं भवति । यद्यस्य पृथिव्यादे:न्द्रियादेर्वोपघातेऽत्र जीतकल्पे प्रायश्चित्तं भणितमस्ति, तत्तस्य स्वप्रायश्चित्त मुच्यते । तदेकस्य पृथिव्यादेीन्द्रियादेर्वा उपघाते एकं स्वप्रायश्चित्तं भवति । द्वयोढें । त्रयाणां त्रीणि । यावद दशानामुपघाते दश । 'तेने 'ति । पञ्चम्यर्थत्वात्ततीयायाः । ततः परमेकादशादिषु बहुष्वपि यावद
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org