________________
४६
श्राद्धजीतकल्पे यदि तेऽपीत्थं यापयन्ति यावज्जी तर्हि तथा सौवीरकूरमात्रभोजनेन किं न यतयो मोक्षगमनैकबद्धकक्षा यापयन्ति ? तैः सुतरामेवं यापनीयं प्रभूतगुणसम्भवात् । गुरुराह
तिअ सीअं समणाणं तिअमुण्ह गिहीण तेण णुन्नायं । तकाईणं गहणं कट्टरमाईसु भइयव्वं ॥१॥ व्याख्या-आहार उपधिः शय्या एतानि त्रीण्यपि गृहिणां शीतकालेऽप्युष्णानि भवन्ति । तेन तेषां तक्रादिग्रहणमन्तरेणापि बाह्याभ्यन्तरोष्णतापेनाहारोष्णतापेनाहारो जीर्यते । तत्राऽभ्यन्तरो भोजनवशात् । बाह्य शय्योपधिवशात् । एतान्येवाहारोपधिशय्यारूपाणि त्रीणि वस्तूनि यतीनां प्रीष्मकालेऽपि शीतानि भवन्ति । तत्राहारस्य शीतता भिक्षाचर्यायां प्रविष्टस्य बहुषु गृहेषु स्तोकस्तोकलाभेन बृहद्वेलालगनात् , उपधेरेकवारमेव वर्षाकालादर्वाक् प्रक्षालनेन मलिनत्वात् , शय्यायास्तु प्रत्यासन्नाग्निकरणाभावेन । तेन कारणेन ग्रीष्मकालेऽप्याहारादीनां शीतत्वसम्भवरूपेणोपहन्यते जाठरोऽग्निः । तस्माच्चाम्न्युपघातोदजीर्णबुभुक्षामान्द्यादयो दोषा जायन्ते । ततस्तकादिग्रहणं साधुनामनुज्ञातम् । तक्रादिनाऽपि हि जाठरोऽनिरुद्दीप्यते । तेषामपि तथास्वभावत्वात् । कट्टरादिषु-घृतवटिकोन्मिश्रतीमनादीनां ग्रहणं भाज्यम् । ग्लानत्वादिप्रयोजनोत्पत्ती कार्य, न शेषकालमिति भावः । तेषां बहुलेपत्वात् गृद्धिजनकत्वाच्च । एतत्सर्वं प्रासङ्गिकम् । प्रस्तुतं तु लिप्तम् । तत्र च दातुः सम्बन्धी हस्तः संसृष्टोऽसंसृष्टो वा भवति । येन च कृत्वा मिक्षां ददाति तदपि मात्रकं संसृष्टमसंसृष्टं वा । द्रव्यमपि सावशेषं निरवशेषं वा। एतेषां च त्रयाणां पदानां परस्परं संयोगतोऽष्टौ भङ्गाः । संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यम् १ । संसृष्टो हस्तः संसृष्टं मात्र निरवशेषं द्रव्यम् २ । संसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेषं द्रव्यम् ३ । संसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं द्रव्यम् ४ । असंसृष्टो हस्त: संसृष्टं मात्रं सावशेषं द्रव्यम् ५ । असंसृष्टो हस्तः संसृष्टं मात्रं निरवशेषं द्रव्यम् ६ । असंसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेषं द्रव्यम् ७ । असंसृष्टो हस्तोऽसंसृष्टं मात्र निरवशेषं द्रव्यम् ८ । एतेषु चाष्टसु भङ्गेषु प्रथम-तृतीय-पञ्चम-सप्तमेषु कल्पते, सावशेषद्रव्ये सति पश्चात्कर्मासम्भवात् । समेषु पुनर्न कल्पते, निरवशेषे द्रव्ये सत्यवश्यं पश्चात्कर्मसम्भवात् ९ । छर्दितं नाम उज्झितं त्यक्तमिति यावत् । तच्च द्विधा-अनन्तरं परम्परं च । यदशनादौ दीयमाने पृथिव्यादिषु षटजीवनिकायेषु परिशाटिनिरन्तरं पतति तदनन्तरं छर्दितं, यत्र तु सान्तरं पतति तत्परम्परं छर्दितम् । छर्दितग्रहणे च षटजीवनिकायविराधनादयो दोषाः सम्भवन्ति । तत्र च मधुबिन्दूदाहरणम् । तच्चेदं-चम्पानगर्या धर्मघोषो मन्त्री । तस्य प्रियङ्गनाम्नी भार्या । एकदोत्पन्नवैराग्यः स प्रवत्राज । कालेनाधीतका. दशाङ्गादिश्रुत एकांकिविहारप्रतिमाप्रतिपन्नो वारत्तयपुरेऽभयसेनराजाऽमात्यवारत्तयगृहे भिक्षार्थं गतः । भूमौ स घृतक्षीरबिन्दुनिपातादगृहीतभिक्ष एव गतः । क्षीरबिन्दौ मक्षिकाः समागताः । ता दृष्टवा तत्र गृहकोलिकः । तदुपरि दुष्टमार्जारः । तं प्रति कुतश्चिदासनग्रामागत-राजपुत्रश्वा, तं प्रति वास्तव्यराजपुत्रश्वा । ततश्च शुनोः परस्परं युद्धे जायमाने तत्स्वामिनोयुद्धमजनि । एतत्सर्वं गवाक्षस्थेन मन्त्रिणा दृष्टम् । ततश्च मन्त्रिणोत्तोर्य वारितौ श्वप्रभू । मन्त्री चिन्तयति-अत एव मुनिना भिक्षा न गृहीता । सञ्जातजातिस्मृतिर्दीक्षां लात्वा वारत्तयमुनिः सुंसुमारपुरे गत्वा देवकुले प्रतिमया स्थितः । इतश्च तत्र धुन्धुमारराजपुत्रीमङ्गारवती चण्डप्रद्योतो याचते । राजा न दत्ते । चण्डप्रद्योतेन पुरं वेष्टितम् । नैमित्तिकश्च श्रुतिं विलोकयन् रात्रौ बालकानि भापयति । तानि तं दृष्ट्वा यत्र देवकुले वारत्तकमुनिः
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org