________________
पञ्च ग्राणादोषाः
प्रतिमया स्थितः तत्र गच्छन्ति । सहसा ' मा भैष्ट' इति साधुनोक्ते नैमित्तिको पृष्टः सन् राज्ञे वक्तितब जयोऽस्ति । राज्ञा युद्धं कृतं । चण्डप्रद्योतो बद्धः पुनः सत्कार्य सन्मान्य पुत्री दत्ता । चण्डप्रद्योतः कियन्ति दिनानि स्वपुरे स्थापितः । ततश्चण्डप्रद्योतेन बलाल्पं दृष्ट्वा सा पृष्टा कथमहं बद्धः ? | तयोक्तं मुनिप्रोक्तशकुनबलेन । ततश्चण्डप्रद्योतेन ' हे नैमित्तिक साधो ! तुभ्यं नम ' इत्युपहासे कृते वारत्तकमुनिरा-प्रव्रज्यादिनादती चारमपश्यन् बालव्यतिकरं स्मृत्वा प्रतिक्रम्य मुक्ति गत इति १० । एते दश ग्रहणैषणा दोषा भवन्ति । अथ ग्रासैषणादोषास्ते च पञ्च । यदुक्तम्
"
संजोअणा पमाणे इंगाले धूमकारणे पढम 'ति । गाथापूर्वार्द्धम् । तत्र पूर्वं संयोजना सा च द्वधा-बाह्या अभ्यन्तरा च । वसतेर्बहिरेव भिक्षामटन् साधू रसगृद्धया दुग्धदध्योदनादीनां द्रव्याणामनुकूलद्रव्यैः सह संयोजन रसविशेषोत्पादनाय यत्करोति सा बाह्या संयोजना । अभ्यन्तरा पुनसतावागत्य भोजनवेलायां संयोजयति । सा च त्रेधा - पात्रे कवले वदने च । तत्र यद् द्रव्यं यस्य रसविशेषाधायि तत्तेन सह पात्रे रसगृद्धया संयोजयति । यथा सुकुमारिकादिकं खण्डादिना सह । एषा पात्रम्यन्तरा संयोजना । यदा तु हस्तगतमेव कवलतयोत्पाटितं सुकुमारिकादिचूर्ण खण्डादिना सह संयोजयति तदा कवले । यदा पुनर्वदने कवलं प्रक्षिप्य ततः शालनकं प्रक्षिपति यद्वा-मण्डकादिकं पूर्वं प्रक्षिप्य पश्चात् गुडादिकं प्रक्षिपति तदा मुखे । रसगृद्धया च बाह्यद्रव्याणां संयोजनां कुर्वन्नात्मनो ज्ञानावरणीयादिकर्म पुद्गलसमूहैः सह संयोजनां करोतीति निषिद्धा संयोजना | वर्द्धिष्णुघृतादिनिगमनार्थं संयोगोऽनुज्ञातस्तीर्थ कृदादिभिः । तत्परिष्ठापने पश्चादपि की टिकादिबहुसत्त्वोपघातसम्भवेन बृहत्तरप्रायश्चित्तसम्भवात् । एवं ग्लानाद्यर्थमपि संयोजना न दुष्टा । यदुक्तम्
४७
रसहेउं संजोगो पडिसिद्धो कप्पए गिलाणट्ठा । जस्स व अभत्त छेदो सुहोचिओ भाविओ जो य ||१|| पिण्डाधिकाराच्व पिण्डविषयैवैषा संयोजनाऽभिहिता । एवमुपकरण विषयाऽपि साऽवगन्तव्या १ ।
अथातिप्रमोणदोषः । तत्र साधोर्यावन्मात्रेण द्वात्रिंशत्कवला दिप्रमाणेनाहारेण भुक्तेन धृतिबलसंयमयोगा न हीयन्ते तावन्मात्रमाहारप्रमाणं भोजने विज्ञेयम् । कुकुड्यण्डकप्रमाणकवलापेक्षं पुनरेवमाहारमानमभिधीयते -
'बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला' ॥ १ ॥ उदरभागापेक्षं त्वेवं—
"
>
अद्धमसणस्स सर्वजणस्स कुज्जा दवस्स दो भाए । वायपविआरणट्ठा छब्भागं ऊणगं कुज्जा' ॥१॥ प्रकामनिकामप्रणीतभक्तपानातिबह्वाहाराति बहुवारभोजनादौ च प्रमाणातिक्रमदोषः स्यात् । यदुक्तं
' पगामं च निगामं च पणीअं भत्तपाणमाहरे । अइबहुअं अइबहुसो पमाणदोसो मुणेयव्वो ' ॥ १ ॥ तत्र द्वात्रिंशदादिकवलेभ्यः परतो भुञ्जानस्य प्रकामभोजनं । तदेव च प्रत्यहं क्रियमाणं निकामभोजनम् । गलत्स्नेहं भोजनं प्रणीतम् । अतिशयेन निजप्रमाणातिरेकेण बहु अतिबहु । त्रिभ्यो वारेभ्यः परतो भोजनमतिबहुशः । अतिप्रमाणे च भोजने वमनातिसारमरणादयो दोषा भवन्ति । अतः प्रमाणातिक्रमो न कर्त्तव्यः प्रमाणयुक्तमेव च भोक्तव्यम् । तस्यैव गुणावहत्वात् । यदाह -
Jain Education International 2010_05
For Private Personal Use Only
www.jainelibrary.org