________________
भिक्षादोषाः मिक्षाग्रहणे हि साधोरपि कुष्ठरोगसङ्क्रातिः स्यात्तदीयोच्छ्वास-त्वकसंस्पर्शस्वेदमलमूत्रोच्चाराहारलालादिमिः शरीरान्तरे तत्समणस्याभिहितत्वात्ततो न ग्राह्या ३२ । तथा पादुकारूढः-काष्ठादिमयोपानत्समारूढः । स हि मिक्षां प्रयच्छन् दुर्व्यवस्थितत्वात् कदाचित् पतति कीटिकादिसत्त्वविराधनां च करोतीत्यतोऽसावपि परिहियते ३३ । तथा
'छक्कायवग्गहत्था समणवा निक्खिवित्त ते चेव । घटुंती गाहंती आरंभंती अ पडिसिद्धा' ॥१॥ एतस्या व्याख्या-षट्कायव्यग्रहस्ता-घटकाययुक्तहस्ता । इह षट्कायव्यग्रहस्ता सोच्यते यस्या हस्ते सजीवलवणमुदकमग्निर्वायुपूरितो दृतिकः फलादिकं बीजपूरादि मत्स्यादयो वा विद्यन्ते । ततः सा श्रमणार्थ-श्रमणभिक्षादानार्थमुत्थाय षटकायान भूम्यादौ निक्षिप्य पुनः तानेव घट्टयन्ती-तत्सदं कुर्वाणा तानेव गाहमाना-विलोडनेनेतस्ततो विक्षेपणेनाऽगाढं गाढं वा परितापयन्ती । तानेवारभमाणा चषट्कायोपद्रवकरमारम्भं कुर्वाणा । खननमर्दनादिना पृथिवीकार्य, मजनवस्त्रधावनादिनाऽप्कायम् , उल्मूकघट्टनादिनाऽग्निम् , अग्न्यादेः फूत्करणादिना मारुतं, फलादेः कर्त्तनादिना वनस्पतिं. स्फुरन्मत्स्यादिछेदनादिना त्रसकाय विराधयन्तीत्यर्थः । एवंविधा दात्री प्रतिषिद्धा । एतस्याः पार्थात् साधुमिर्भिक्षा न ग्राहोत्यर्थः । एवंप्रकारः षष्ठः एषणादोषः ६। उम्मिश्रं नाम साधूनां दानयोग्यमोदनादि, अयोग्यं तु सचित्तं फलादि, मिश्रमामपक्वपृथुकादि, अचित्तं च तुषादि । एतानि द्वन्यादीनि वस्तून्यनाभोगादिना मिश्रयित्वा गृहस्थो यद्ददाति । तत्र सचित्तन मिश्रण वा वस्तुना मिश्रीकृत्य यद्देयद्रव्यं ददाति तन कल्पते, अन्यत्र तु भजना ७। अपरिणतं द्विधा-द्रव्यापरिणतं भावापरिणतं च । तत्र द्रव्यापरिणतं यद्दातव्यद्रव्यमेवापरिणतमप्रासुकं भवति । भावो-ऽध्यवसायः। स च द्वयोः स्वामिनोर्मध्यादेकस्याऽपरिणतो दाने अनभिमुखाऽथवा मिक्षागतसाधुसङ्घाटकमध्यादेकतरस्य साधोर्मनसि एतल्लभ्यमानमशनादि निर्दोषमित्यध्यवसायः द्वितीयस्य तु न तथा । ततो भावेन दातृसत्केन ग्रहीतृसाधुसत्केन वाऽपरिणतं भावापरिणतम् ८ । लिप्तं नाम दधिक्षीरघृततैलतीमनप्रभृतिद्रव्यस्य लेपः करभाजनादौ लगति, तच्च कारणं विना न गृह्यते । यदाह
'चित्तव्वमलेवकड लेवकडमाहु पच्छकम्माई । न य रसगेहिपसंगो न य भुत्ते बंभपीडा य' ॥ १ ॥ ननु यद्येवं लेपकृद्रहणे पश्चात्कर्मादयो दोषा भवन्ति ततस्तन्न गृह्यते, तर्हि मा कदाचनापि साधु(कताम् ? । एवं हि सर्वेषां दोषाणां मूलत एवोत्थोनं निषिद्धं भवति । गुरुराह-सर्वकालं क्षपणमेव कुर्वतः साधोश्चिरकालभावितपोनियमसंयमानां हानिर्भवति. तस्माद्यावज्जीवं क्षपणं न कार्यम् । पुनः प्राह यदि सर्वकालं क्षपणं कर्तुमशक्तस्तहि षण्मासक्षपणं कृत्वा पारणकमलेपकृता विधत्ताम् । गुरुराहयद्येवं तपःकुर्वन् संयमयोगान् कत्तुं शक्नोति तर्हि करोतु, न कोऽपि तस्य निषेद्धा । पुनरप्याह-यदि षण्मासक्षपणं कर्तुं न शक्नोति तर्हि एकदिनोनं षण्मासक्षपणं कृत्वा आचाम्लेन पारयतु । एवमेकंकदिनहान्या तावदात्मानं तोलयेद् यावच्चतुर्थं कृत्वा आचाम्लेन पारणकं करोतु । एवमप्यसामर्थ्य दिवसे दिवसे गृह्णात्वाचाम्लं निर्लेपम् ? । गुरुराह-करोत्वेवं तपो, यदि प्रत्युपेक्षणादि-संयमयोगभ्रंशो न भवति । केवलं सम्प्रति सेवार्तसंहननानां नास्ति तादृशी शक्तिरिति न तथोपदेशो विधीयते । पुनः परः प्राह-ननु महाराष्ट्राः कोशलदेशोद्भवाः सदैव सौवीरकूरमात्रभोजिनः तेऽपि च सेवार्तसंहननाः , ततो
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org