________________
४४
श्राद्धजीतकल्पे च सकोशद्भिक्षा न ग्राह्या, दानासमर्थत्वाल्लोकापवादादिदोषसम्भवाच्च ११ । गुर्विणी-आपनसत्त्वा । तत् सकाशाद् गच्छनिर्गता जिनकल्पिकोदयः प्रथमदिनादारभ्य मिक्षां न गृह्णन्त्येव । स्थविरकल्पिकास्त्वष्टौ मासान् यावद् गृह्णन्ति, नवमे मासे तु न गृह्णन्ति, निषीदनोत्थानाभ्यां गर्भपीडासम्भवात् १२ । निगडेन-लोहमयपादबन्धनेन बद्धः अण्डुकेन-काष्ठमयकरबन्धनेन बद्धः एताभ्यां सकाशात् परितापनादिदोषसम्भवाद्भिक्षा न ग्राह्या १३-१४ । बालवत्सा-स्तन्योपजीविशिशुका तया दीयमानं न कल्पते, निक्षिप्तबालस्य मार्जारादिभ्यो विनाशसम्भवात निक्षिप्यमाणस्योत्क्षिप्यमाणस्य चातिसुकुमारत्वेन परि. तापनासम्भवात् १५ । गाथापर्यन्तवर्ती योशब्दोऽत्र प्रत्येकमभिसम्बध्यते । ततश्च या काचिन्महिला खण्डयति-ऊदूखलक्षिप्तानि शाल्यादिवीजानि मुसलघातैः श्लक्ष्णीकरोतीत्यर्थः । तया दीयमाना मिक्षा न ग्राह्या, बीजसचट्टाद्यारम्भसम्भवात् १६ । तथा पिनष्टि-शिलायां तिलामलककुस्तुम्बरुलवणजीरकादीनि मृनातीति भावः । अनयापि दीयमानं न कल्पते तिलादिसट्टसद्भावात् १७ । तथा भृजति-चनकयवगोधूमादीन् अग्निप्रतप्तकडिल्लकादौ स्फोटयतीत्यर्थः । तया दीयमानं न कल्पते कडिल्लकादौ प्रक्षिप्तस्य तस्य चनकादेर्दाहसम्भवात १८ । तथा जेमति-भुङ्क्तेऽभ्यवहरतीत्यर्थः । भुञ्जाना ह्याचमनं विधाय साधुभ्यो यदि दद्यात्तदाऽष्कायविराधना । अथैतद्दोषभयात् तदकृत्वैव वितरेत् तदोच्छिष्टमप्येते न त्यजन्तीत्यादिजनापवादः । तत्र च महान् दोषः । यदाह
_ 'छक्कायदयावतो वि संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे दुगुंछिए पिंडगहणे अ । इत्यतो न कल्पते १९ । तथा विरोलयति-करमन्थनादिना दध्यादिकं मध्नाति । सा हि संसक्तदध्यादिलिप्तकरा भिक्षां ददती सत्त्ववधं विदध्यादिति न गृह्यते २० । तथा दलति-सजीवं सचित्तं गोधूमादि. धान्यं घरटेन पिनष्टि । इयं भिक्षादानायोत्तिष्ठन्ती बीजादि सचट्टयति दत्त्वा च करौ प्रक्षालयतीति न गृह्यते २१ । तथा या काचिन्नारी साधुदानायोद्यता सती मूलस्थालीतः समाकृष्य स्थगनिकादौ बलिमुपहारमग्रकूरमित्यर्थः स्थापयति, तया दीयमाना भिक्षा न कल्पते प्रवर्तनादिदोषसम्भवात् २२ । तथोद्वर्त्तयति-साधुदानबुद्धया परावर्त्तयति पिठरादि-स्थाल्यादि नामयतीत्यर्थः । अत्र च कीटिकादिसस्वोपघातः स्यात् २३ । तथा विधोर्ध्वाधस्तिर्यगलक्षणेनिमिस्त्रिभिः प्रकारैः सप्रत्यपायकाष्ठकण्टकगवादिभ्यः सकाशात्सम्भाव्यमानाभिघाताद्यनर्था या काचिद्वनिता स्यात् । 'तहा सपच्चवाया जा ' इति पाठे तु तथा सप्रत्यपाया या दात्री कूलवालकमुनिव्रतत्याजयित्री मागधिकावेश्येव शाकिन्यादिर्वा तया दीयमानं न कल्पते २४ । तथा साधारणं-बहायत्तं तद्ददातीति योगः। तत्र साधारणानिसृष्टवदोषा वाच्याः २५ । तथा चोरितकं-चौरिकया गृहीतं साधुभ्यो ददाति । तत्र च दोषाः प्रतीता एव २६ । तथा पराक्यं-परसत्कं परकीयमिदमित्युक्त्वा ददाति । अथवा परार्थ-परनिमित्तं कार्पटिकादिदानाय कल्पितमित्यर्थस्तद्ददाति । अत्र च परसत्के ततस्वामिनाऽननुज्ञाते परदानाय कल्पिते च दीयमाने अदत्तादानाऽन्तरायादयो दोषाः २७ । तथा या कर्त्तयति-रूतं चक्रेण सूत्रं करोति २८ । तथा लोढयति-कर्पासं लोढिन्यां कनकेन निरस्थिकं करोतीत्यर्थः २९ । तथा पिञ्जयति-रूतं पिञ्जनेन मृदूकरोति ३० । तथा 'विक्खिणइत्ति । विकीर्णयति-रूतं कराभ्यां पौनःपुन्येन श्लक्ष्णयति ३१ । एतामिश्चतसृभिरपि दीयमानं न कल्पते, कर्पासास्थिकसङ्घट्टन-देयवस्तुखरण्टितहस्तधावनदोषसम्भवात् । तथा प्रगलन्-गलत्कुष्ठस्ततो
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org