________________
भिक्षादोषाः
४३
दानानन्तरं क्षालने पश्चात्कर्म, सस्निग्धमीषल्लक्ष्यमाणजलखरण्टितं हस्तादि, उदका, स्पष्टोपलभ्यमानजल. संसर्गम् । वनस्पतिकायम्रक्षितं तु द्वेधा-प्रत्येकानन्तभेदेन । पृथिवीम्रक्षितं वनस्पतिम्रक्षितं चानन्तरपरम्परभेदेन प्रत्येकं द्विविधम् । अचित्तम्रक्षितं पुनधा-मांसवसाशोणितसुरामूत्रोच्चारादिगर्हितैक्षितं गर्हिताचित्तम्रक्षितम् । तथा संसजन्ति-विलगन्ति सलेपत्वात् कीटिकामक्षिकादि जन्तवो येषु तानि संसक्तानि तैरगर्हितैरचित्तैक्षितमगर्हितसंसक्ताचित्तम्रक्षितम् २ । निक्षिप्तं-पृथिव्यादिषु स्थापितं तद्द्विधा-अनन्तरं परम्परं चेति । देयं वस्तु पृथिव्यादिषु निरन्तरं सान्तरं वो स्थापितं भवतीति द्विधा निक्षिप्त मित्यर्थः ३ । पिहितं नाम यद् देयमशनादि वस्तु केनाऽप्यपरेण वस्तुना स्थगितं । तत्त्रेधा-गुर्वचित्तपिहितं, सचित्तपिहितं, मिश्रपिहितं चेति ४ । संहृतं नाम येन हस्तेन मात्रकेण वा कृत्वा दात्री साधोरशनादिकं दातुमिच्छति । तत्राऽन्यददातव्यं किमपि सचित्तमचित्तं मिश्रं वाऽस्ति । ततस्तदन्यत्र भूम्यादौ सचित्तेऽचित्ते मिश्रे वा क्षिप्त्वा तेन हस्तेन मात्रकेण वा यद्ददाति । अत्र सचित्ताचित्तमिश्रभेदश्च तिम्रश्चतुर्भङ्ग्यो भवन्ति । तथाहि-एका चतुर्भङ्गी सचित्तमिश्रपदाभ्यां, द्वितीया सचित्ताचित्तपदाभ्यां। तृतीया मिश्राचित्तपदाम्याम् । तत्र सचित्ते सचित्तं संहृतं, मिश्रे सचित्तं, सचित्ते मिश्रं, मिश्रे मिश्रं चेति प्रथमा । सचित्ते सचित्तम्, अचित्ते सचित्तं, सचित्तेऽचित्तम् , अचित्तेऽचित्तम् इति द्वितीया । तथा मिश्रे मिश्रम, अचित्ते मिश्रं मिश्रेऽचित्तम् , अचित्तेऽचित्तमिति तृतीया । अत्र प्रथमायाः सर्वेष्वपि भङ्गेषु न कल्पते, द्वयोस्त्वाद्येषु त्रिषु त्रिषु प्रतिषेधश्वरमे पुनर्भजना। अत्र सचित्तः पृथिवीकायः सचित्त पृथ्वीकाये संहृतः, सचित्ताप्काये वा संहृत इत्यादि षड्जीवनिकायचारणिकया स्वस्थानपरस्थानापेक्षया चतुर्भङ्गीत्रयभङ्गेष्वेककस्मिन् भने ट्त्रिंशद् षटत्रिंशद् भङ्गा भवन्ति । ते च सर्वसङ्ख्यया चत्वारि शतानि द्वात्रिंशदधिकानि भङ्गानां भवन्ति। एते च सर्वेऽपि भङ्गा नैरन्तर्येण च भवन्ति । तत्र चैतेषु सर्वेष्वपि निरन्तर-परम्परसंहृतभङ्गेषु यत्र यत्र सचित्तसचट्टनादिर्दोषस्तत्र तत्र न कल्पते । अन्यत्र तु कल्पते । एतत्सर्वं निक्षिप्तपिहितयोरप्यवगन्तव्यमिति । दायकः स्थविरादिरित्येवंविधो दोषः । स्थविरादिभिर्दीयमाने दायकदोषो भवतीत्यर्थः । तदुक्तम्'थेरऽपहु-पंड वेविर-जरि-अंधऽव्वत्त-मत्त-उम्मत्ते । छिन्नकरचरण-गुव्विणि-नियलंडुअबद्ध-बालवच्छाए । खंडइ पीसइ भुंजइ जिमइ विरोलइ दलइ सज्जि। ठवइ बलिं उवउत्तइ पिढराइ तिहा सपच्चवाया जा ॥ सोहारण-चोरियगं देइ परकं परटं वा । कत्तइ लोढइ पिंजइ विक्खिणइ पगलंतपाउयारूढे ॥३॥ एतासां लेशतो व्याख्या-स्थविरो-वृद्धः । सप्ततिवर्षाणां मतान्तरे षष्टिवर्षाणां वोपरिवर्ती । स्थविरस्य च हस्तेन भिक्षाग्रहणे निपतन-षड्जीवनिकायविराधनादिदोषा भवेयुः । अतस्तद्धस्तेनोत्सगतो न ग्राह्यम् १ । तथा अप्रभुर्दीयमानभक्तादेरस्वामी भृतकादिः । तेन दीयमाने प्रभोरप्रीतिः स्यात् २ । पण्डकोनपुंसकस्तस्मिन् दायके लोकापवादशङ्कादिदोषाः ३ । वेपमान:-कम्पमानशरीरः। तदाने परिशटन-भाजनभङ्गादिदोषाः ४ । ज्वरितो-ज्वररोगपीडितः। ततो भिक्षाग्रहणे ज्वरसङ्क्रमण-जनापवादादयो दोषाः ५ । अन्धः-चक्षुर्विकलः । तस्य भिक्षां ददतः कायवधस्खलनपतनभाजनबहिर्भक्तक्षेपणजनवचनीयतादयो दोषाः ६ । अव्यक्तो-बालो जन्मतो वर्षाष्टकाभ्यन्तरवर्ती । तेन दीयमाने तज्जनन्यादेः प्रद्वेषः ७ । मत्तः-पीतमदिरादिः । स चाशुचित्वालिङ्गनहननभाजनभङ्गकरणादिदोषदुष्टत्वात्साधुमिक्षादानाऽयोग्यः ८ । उन्मत्तोदृप्तो ग्रहगृहीतो वा सोऽपि मत्तवद्दष्टः ९ । छिन्नकरः-कर्तितहस्तः छिन्नचरणो-लूनपादः । एताभ्यां
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org