________________
३६
शाक्या ऽऽजीवक- कपिल-बोटिको लूक - वेद - तापसादिकुमतान्याकाङ्क्षति, कृषीबल इव सर्वधान्यवपनानि कदाचित् किञ्चित् फलतीतिधिया २ । विचिकित्सा - आत्मनः फलं प्रत्यनाश्वासः । यथा - आसीत्तादृशानुष्ठायिनां पुरातनानां महासत्त्वानां मोक्षः, अस्मादृशां त्वस्नान केशलुञ्चनादिकं कष्टमेव मन्दसत्त्वत्वात क्व मोक्षसम्भव ? इति देशतः स्तोकोऽनाश्वासः । सर्वतस्तु सर्वथाऽनाश्वासः । यद्वा- विदक् ज्ञाने ' विदन्तीति क्विप तल्लोपे विदः - साधवस्तेषां जुगुप्सा विद्जुगुप्सा । देशतोऽहो ! मलदुर्गन्धा इमे मुनयो
ष्णोदकेन स्नायुस्तदा को दोषः स्याद् ? इत्यादि । सर्वतस्तु मण्डल्यां नन्दिपात्रे मिथः संसृष्टभोजिनोऽमी । गुप्तिगृहवासिन इव मलीमसाङ्गवाससः प्रागदत्तदानत्वेनाऽऽजन्म भिक्षाचरा इत्यादि ३ । मूढदृष्टिःपरतीर्थिकानां बालतपस्वितपोविद्यामन्त्राद्यतिशयान् राजादिकृतां पूजां वा दृष्ट्वा तदागमाद्वा श्रुत्वा देशतः स्तोकान् मतिव्यामोहात्, सर्वतस्तु सर्वथा मूढा - स्वभावाच्चलिता दृष्टिः- सम्यग्दर्शनरूपा यस्यासौ मूढदृष्टिः । उक्तं च
श्राद्धजीतकल्पे
णेगविद्दा इड्ढीओ पूयं परवाइणं च दट्ठूणं । जस्स न मुज्झइ दिट्ठी अमूढदिट्ठि तयं बिंति ४ । उपबृंहा-प्रशंसा । सा ज्ञानदर्शनतपः संयमवेयावृत्त्याद्युद्यतानां समानधार्मिकाणां साध्वादीनां तत्तद्गुणप्रशंसनेन तदुत्साहवृद्धिहेतुः प्रशस्ता । यदुक्तम्
' खमणे वेयावच्चे विणए सज्झायमाइसु अ जुत्तं । जो तं पसंसए एस होइ उववूहणाविणओ' ॥ १ ॥ मिथ्यादृशां शाक्यचरकादीनां त्वप्रशस्ता ५ । स्थिरीकरणं - ज्ञानदर्शनसंयम तपोवैयावृत्त्यादिषु सीदतां समानधार्मिकसाध्वादीनां यथार्होपष्टम्भदानेन स्थैर्यहेतुः प्रशस्तम् । यदुक्तम्
एएस चि खमणाइए सीयंत चोयणा जा उ । बहुदोसे माणुस्से मा सीय थिरीकरण मेयं || १ || ' खमणाइएसु 'त्ति । आदिशब्दाद्वैयावृत्त्यविनयस्वाध्यायादिषु । असंयमविषये पुनस्तद्प्रशस्तम् ६ । वात्सल्यं नाम आचार्य - ग्लान- प्राघुर्णक - तपस्वि - सेहा - ऽसह - बाल- वृद्धादीनामाहारोपध्यादिना समाधिसम्पादनं प्रशस्तम् । उक्तं च
'साहम्मिवच्छलं आहाराइसु होइ सव्वत्थ । आएस- गुरु- गिलाणे तवस्सि - बालाइसु विसेसो || १ | गृह - पार्श्वस्थापष्टम्भरूपं तु तदप्रशस्तम् ७ । प्रभावना नाम प्रभाव्यते - विशेषतः प्रकाश्यते इति प्रभावना ' णिवेत्त्यासश्रत्थे ' [ सिद्धम० | ५|३|१११ । ] त्यादिना भावे अनप्रत्ययः । सा चार्थात प्रवचनस्य सा प्रशस्ता । तत्र यद्यपि प्रवचनं शाश्वतत्वात्तीर्थकरभाषितत्वाद्वा सुरासुरनमस्कृतत्वात् स्वयमेव दीप्यते तथापि दर्शनशुद्धिमात्मनोऽमीप्सुर्यो येन गुणेनाधिकः स तेन तत्प्रवचनं प्रभावयति यथा - भगवदार्यवज्रस्वामिप्रभृतिकः । उक्तं च
"
,
‘ कामं सभावसिद्धं तु पवयणं दिप्पए सयं चेव । तहवि य जो जेणहिओ सो तेण पभावए तं तु ॥ १ ॥ ते प्रवचनप्रभावका अतिशय्यादयः । उक्तं च
6
अइसेसि - इड्ढि - धम्मकहि-वाइ - आयरिअ - खवग-नेमित्ती । विज्जा रायगणसंमया य तित्थं पभाविति ' ॥१॥ अस्या अक्षरगमनिका - अतिशयी - अवधि - मनः पर्यायज्ञानयुक्तोऽतिशाय्यध्ययनो वा १ । ऋद्धिप्रहाद् राजाऽमात्यादि: ऋद्धिमान् दीक्षामाहकः आमषैषध्यादि-ऋद्धिप्राप्तो वा २ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org