________________
अष्टधा दर्शनातिचारः
‘ओवंती केयावंती लोगमि विपरामुसंती 'त्यत्राचारागसूत्रे यावन्तः केचन लोकेऽस्मिन् पोखण्डिलोके विपरामृशन्तीति प्रस्तुतेऽर्थेऽन्योऽर्थः परिकल्प्यते । यथा-अवन्ती जनपदे केया-रज्जुर्वातात कूपे पतिता तां लोकः स्पृशतीति ७ । यत्र च सूत्रार्थों द्वावपि विनाश्येते स तदुभयातिचारः। धम्मो मंगलमुक्ट्रो अहिंसा गिरिमत्थए । देवावि तस्स नस्संति जस्स धमे सया मसी ८ । अयं च महीयानतिचारो, यतः सूत्रार्थोभयनाशे चारित्रनाशस्तन्नाशे मोक्षाभावस्तदभावे दीक्षावैयर्थ्यमिति । एष चाष्टविधो ज्ञानातिचारः। तंत्र यथोहं प्रायश्चित्तमाह
हीणक्खराइ लहु पुत्थियाइपाडण-पयाइथुक्काई ।
चउलहु गुरू अकालाइ निंदपडिणीययाईसु ॥ ५६ ।।
व्याख्या- उच्चारस्याध्याहारात् हीनाक्षरोच्चारे, आदिशब्दादधिकाक्षरोच्चारे संस्कृतकरणे पर्यायैर्वाऽभिधाने व्यञ्जनातिचारे इतिभावः। लघुमासः १ प्रायश्चित्तं भवतीति सर्वत्र योज्यम् । तथा पुस्तिकादिपातने, आदिशब्दात् पट्टिका-पत्रटिप्पनीका-नमस्कारावल्यादिप्रहः ‘सूचकत्वात् सूत्रस्य' तत्र पादादिना स्पशने, निष्ठातादिनाऽक्षरमार्जने च चतुर्लघुः । तथा गुरुमासः प्रायश्चित्तं भवति । केषु ? इत्याह- अकालाइ' इत्यादि। अकालपठनादौ, आदिशब्दादध्यापकगुरुं प्रति विनयबहुमानाकरणे यथाईमुपधोनमन्तरेणैव सूत्राध्ययनेऽर्थस्यान्यथाकल्पने च ज्ञानस्य ज्ञानिनां वा निन्दायां प्रत्यनीकतायां चादिशब्दादुपघातकरणादिषु चेति । इदं च मध्यमापराधानाश्रित्य ज्ञेयम् । जघन्योत्कृष्टापराधेषु पुनर्लघु १ चतुलघुकेव भवत इति गाथार्थः ॥ ५६ ॥
अथ दर्शनाचारातिचारानुद्दिश्य प्रायश्चित्तमाह
संकाइ मूढदिट्ठी पासत्थाईकुदिठिवच्छल्ले । संथव पसंस मिच्छप्पहावणा संजमथिरत्ते ॥ ५७ ।। तह संघाणुववृहाइसु देसे चउलहु-गुरुग सव्वे ।
गुरुग अ ममत्ताइसु लहु गुरु-चउलहु तिविहमिच्छे ॥५८॥
व्याख्या-दर्शनाचारातिचारोऽष्टधा । तद्यथा-शङ्का काक्षा विचिकित्सा मूढदृष्टिरुपबंहणा स्थिरीकरणं वात्सल्यं प्रभावना चेति । तत्र संशयकरणं शङ्का । सा द्विघा-देशतः सर्वतश्च । तत्र देशतस्तुल्येऽपि जीवत्वे कथमेके भव्या अपरे त्वभव्या ? इत्यादि । सर्वतम्तु प्राकृतभाषानिबद्धमिदं श्रुतं न ज्ञायते कि सर्वज्ञेन प्रणीतमाहोश्वित् कुशलमतिना केनापि परिकल्पितमिति । न पुनरेतद्विचारयति यथा-भावा हेतु. ग्राह्या अहेतुप्राह्याश्च । तत्र हेतुमाह्या जीवास्तित्वादयः, अहेतुमाह्या अस्मदाद्यपेक्षया भव्यत्वादयः , प्रकृष्टज्ञानगोचरत्वात्तद्धेतूनामिति । प्राकृतनिबन्धोऽपि बालादिसाधारणत्वात् । उक्तं च
____ 'बालस्त्रीमन्दमूर्खाणां नृणां चारित्रकाक्षिणाम् । अनुप्रहार्थं सर्वः सिद्धान्तः प्राकृतः कृतः । इतश्च न परिकल्पितो, दृष्टेष्टाविरुद्धत्वात् १ । अन्यान्यदर्शनग्रहणमाकाङ्क्षा । साऽपि देशतः एकं किञ्चित् कुतीर्थिकमतमाकाङ्क्षति । यथा-अस्मिन्नपि खल्वहिसैव धर्मो, मोक्षश्च फलमुच्यते । सर्वतः सर्वाणि
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org