________________
४
श्राद्धजीतकल्पे एव स्खलितः। एवं शेषेकविंशत्यापि न कृतो राधावेधः । ततश्च लज्जया राजोपहतमनास्तिष्ठति । ततश्चोमात्येनोक्तम्-यदेष त्रयोविंशो युष्मदङ्गजो जयपताकां ग्रहीष्यति । कथं मदङ्गज ? इति राज्ञोक्ते तान्यमिज्ञानानि दर्शयति । ततश्च सुरेन्द्रदत्तेन मित्रचतुष्टये विघ्नं कुर्वति द्वाविंशतौ कुमारेषु हसत्सु सुभटद्वयेऽसिव्यग्रहस्ते पार्श्वद्वयेऽवस्थिते कलाचार्ये बहुतरं निर्भर्त्सयति च तथाविधकृताभ्यासत्वेनान्यत्र कुत्रापि मनो अकुर्वता भूमिस्थतैलभृतभाजने प्रतिबिम्बिताष्टचक्राक्षाणि सुनिपुणं विलोक्य पुत्रिकावामाक्षि विद्धं हर्षकोलाहलश्चाजनि । अयमत्रोपनयः-यथा कुमारस्तथा साध्वादिः । यथा ते चत्वारि मित्राणि तथा कषायाः। यथा ते द्वाविंशतिः कुमारास्तथा परीषहाः । यथा तौ द्वौ सुभटौ तथा रागद्वेषौ । यथा पुत्रिकाक्षिवेध्यं तथाऽऽराधना । यथा निवृतिः कन्या तथा सिद्धिरिति गाथार्थः ।। ५४ ।।
उक्तं द्वादशं प्रायश्चित्तफलद्वारम् । अथ पूर्वमुक्तमेकादशं प्रायश्चित्तद्वारम् । तत्र ज्ञानाचाचारपश्चकातिचारक्रमेण प्रायश्चित्तं प्रतिपादयिष्यते। तत्रादौ ज्ञानाशातनायामोधप्रायश्चित्तसाम्यादर्शनाचारातिचारान्तर्गतमुत्पाद्याशातनासु चौघप्रायश्चित्तमाह
तणुमझुक्कोसासायणाइ मुणि-नाण-देव-गुरु-विवे ।
लहु-गुरु-चउलहु सुत्ते अत्थे गुरु-चउलहु-गुरुगा ॥ ५५ ॥
व्याख्या-वचनव्यत्ययात्तनुमध्योत्कृष्टाशातनाभिः-जघन्यमध्यमोत्कृष्टाभिराशातनाभिर्मुनि ज्ञानदेव-गुरु-बिम्बविषयाभिः 'लहु गुरु चउलहुत्ति । लघु-गुरु-चतुर्लघूनि क्रमेण लघुमास १ गुरुमासी चतुलघूनिध प्रायश्चित्तानि भवन्ति । तत्र मुनिः प्रवर्तकादिपदविवर्जितः संयतः, ज्ञान-श्रुतम् , देवोऽहन् , गुरु:-आचार्यादिः, बिम्बमहत्प्रतिमा । तेषु जघन्याशातनायां लघुमासः१ मध्यमाशातनायां गुरुमासी उत्कृष्टाशातनायां चतुर्लघुः प्रायश्चित्तं भवतीति भावार्थः । ज्ञान च सूत्रार्थभेदाद् द्वेधा । तत्र · सुत्ते 'त्ति। अपिशब्दस्य गम्यमानत्वात् सूत्रेऽपि-सूत्रविषयायां जघन्यमध्यमोत्कृष्टरूपायामाशातनायामपि 'लहु गुरु चउलहु 'त्तिपदस्य डमरुकमणिन्यायादत्रापि योगात् क्रमेण लघुमास-गुरुमास-चतुर्लघूनि प्रायश्चित्तानि भवन्ति । 'अत्थे 'ति । अर्थे तु अर्थविषयायां जघन्यमध्यमोत्कृष्टरूपायामाशातनायां 'गुरु चउलहु. गुरुग'त्ति । क्रमेण गुरुमासी चतुर्लघु चतुर्गुरूणिधी प्रायश्चित्तानि भवन्तीति गाथाक्षरार्थः ।। ५५ ॥
___ अथ विभागतो ज्ञानाचारातिचारविषयं प्रायश्चित्तमुच्यते-स चाष्टविधस्तद्यथा-अकाले-अखाध्यायिकेऽनध्यायदिनेषु वा स्वाध्यायकरणं कालातिचारः १ । श्रुतमधिजिगांसोर्जात्यादिमदावलेपेन गुरुषु विनयो-वन्दनादिरुपचारस्तस्याऽप्रयोजनं हीलनं वा विनयातिचारः २ । श्रुते गुरौ वा बहुमानो-हार्दः प्रतिबन्धविशेषस्तस्याऽकरणं बहुमानातिचारः ३ । उपधानम्-आचाम्लादितपसा योगविधानं तस्याकरणमुपधानातिचारः ४ । यत्पाद्यं श्रुतमधीतं तं निहते-अपलपति, अन्यं वा युगप्रधानमात्मनोऽध्यापकं निर्दिशति, स्वयं वाऽधीतमित्याचष्टे । एष निवनाभिधानोऽतिचारः ५ । व्यज्यतेऽर्थोऽनेनेति व्यञ्जनम्-आगमसूत्रं तन्मात्राक्षरबिन्दुभिरूनमधिकं वा करोति, संस्कृतं वा विधत्ते, पर्यायैर्वाऽभिधत्ते । यथा-'धम्मो मंगलमुक्किट्ठ 'मित्यादिस्थाने 'पुन्नं कल्लाणमुक्कोसं दया संवरनिज्जरे 'ति व्यअनातिचारः ६ । आगमपदार्थस्यान्यथापरिकल्पनमातिचारः। यथा आचारसूत्रेऽवन्त्यध्ययनमध्ये
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org