________________
राधावेधकथा
३३
व्याख्या-अविराधितश्रामण्यस्य-प्रकरणादालोचितातिचारत्वादिना न विराधितं-सम्यगनुपालितं श्रामण्य-देशविरति-सर्वविरतिरूपं चारित्रं येन तस्य, सम्यगनालोचकस्यानाराधकतायाः प्राग बहुशः प्रतिपादितत्वात् । एवम्भूतस्य साधोः श्रावकस्य च जघन्यः सौधर्म-प्रथमदेवलोके उपपात-उत्पत्तिर्भणित:प्रतिपादितस्रलोक्यदर्शिमिनिजामलकेवलालोकावलोकिताशेषपदार्थस्तीर्थकृद्भिरिति गाथार्थः ॥ ५३ ॥
फलमेव प्रकारान्तरेणाह
उद्धरियसव्वसल्लो मतपरिणाइ धणियमाउत्तो ।
मरणाराहणजुत्तो चंदगविज्झ समाणेइ ॥ ५४ ॥
व्याख्या-उद्धृतसर्वशल्यो भक्तपरिज्ञायां-भक्तप्रत्याख्याने धनितम्-अत्यर्थमायुक्तः-प्रयत्नपरः मरणाराधनयुक्त-आलोचितातिचारादिवत्त्वेन कृतपण्डितमरणः, स एवंविधो महासाहसोपायाभिज्ञत्वादिगुणवान् चन्द्रकवेध्यं-राधावेधं समानयति-करोतीत्यर्थः । अत्र च राधोवेधकथानकमावश्यकान्तर्गताम्यां गाथाम्यां ज्ञेयं यथा
___ 'इंदपुर इंददत्ते बावीस सुआ सुरिंददत्ते य । महुराए जिअसत्तू सयंवरो निव्वुईए उ ॥ १ ॥ अग्गियए पव्वयए बहुली तह सागरे अ बोद्धव्वे । एगदिवसेण जाया तत्थेव सुरिंददत्ते य' ॥२॥ इति योगसमहंगाथाम्यां समवसेयम् । सक्षेपतस्तच्चेदम्-इन्द्रपुर नगरं तत्रेन्द्रदत्तो नाम राजा। तस्येष्टदेवीना द्वाविंशतिः पुत्राः। तथा तेन राजकाऽमात्यसुता परिणीता । सा च कर्मवशतः परिणयनसमय एव दृष्टा, न परतः । एकदा पुरान्तर्गच्छता दृष्टा साऽमात्यगेहस्था । पृष्टं च केयमिति परिजनेनोक्तं युष्मद्देवीति । ततस्तं वासकं राजा तद्गृहेऽवतस्थौ। तदा च सा ऋतुमसीत्वेन गर्म दधौ। स वृत्तान्तोऽमात्यस्याग्रे कथितो तया । तस्यां रात्रौ राज्ञा यदुक्तं यत्कृतं च तत्सर्नममात्येनाभिज्ञानपूरणाय पत्रे लिखितं । कालेन पुत्रो जातः सुरेन्द्रदत्तो नाम । चत्वारश्च दासीपुत्राः सहजातो अग्निकपर्वतक-बाहुलिक-सागरास्तस्य मित्राणि । द्वाविंशतिस्ते पुत्राः सुरेन्द्रदत्तश्च मित्रपरिवृतः कलाचार्यसमीपे कलाः पठन्ति । स्खलने कलाचार्यस्ताडयति । द्वाविंशतिरपि स्वस्वमातुरने कथयन्ति । ताः कलाचार्यस्योपालम्भं ददति । सुरेन्द्रदत्तकथने त्वमात्यसुता प्रत्युत प्रेरयति । ततस्त्रयोविंशत्यापि राधाक्षः शिक्षितः। इतश्च मथुरानगयीं जितशत्रुराज्ञो ‘यः कश्चिद् राधावेधं साधयिष्यति तं परिणेष्यामी 'ति निश्चयवत्या निर्वतिकन्यायाः स्वयंवरमण्डपे त्रयोविंशतिपुत्रयुत इन्द्रदत्तः प्राप । अन्येऽपि भूयांसो राजानः स्वस्वपरिवारपरिवृता आजग्मुः। तत्र स्वस्वोचितस्थानेषूपाविशन् । एकतश्च नितिकन्या। ततश्चेन्द्रदत्तेनाऽऽद्यपुत्रः श्रीमालीनामा राधावेधाय भणितः। राधावेधो नाम एकस्मिन् भूभागे एको बृहत्तरस्तम्भः । तत्राष्टौ चक्राणि चत्वारि सृष्टया चत्वारि संहारेण च भ्रमन्ति । चक्रे चक्रे चाष्टो अष्टावक्षाः । तदुपरि चैका पुत्रिका । ततश्च भूमिस्थतलभृतभाजनामिमुखदृष्टिना पुरुषेण चक्राटकाक्षमध्येन भूत्वा पुत्रिका-वामाक्षितारिकावेधः क्रियते स राधावेधः । ततश्च तेन तथाविधाकृताभ्यासत्वेन वेपमानहस्तेन कथमपि गृहीतं धनुः मुक्तश्च शरो यद्भवति तद् भवत्विति विचिन्त्य प्रथमचक्र
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org