________________
श्राद्धजीतकल्पे यावत् । स्वयं वाऽसद्विभवो धनिकस्य गृहे कर्म कुर्वन् कार्षापणं निवेशयति-धनिकस्य प्रवेशयति । सोऽल्पेन कालेन तकत् ऋणं मोचयति । एष दृष्टान्तः, अयमर्थोपनयस्तस्य_' संत-विभवेहिं तुल्ला धिइसंघयणेहिं जे उ संपन्ना । ते आवण्णं सव्वं वहंति निरणुमाहं धीरा' ॥ १॥ ये धृतिसंहननाम्यां सम्पन्ना-युक्ताः सद्विभवैस्तुल्यास्ते धीराः सर्वमापन्नप्रायश्चित्तमनुग्रहरहितं वहन्ति । ___संघयणधिईहीणा असंतविभवेहिं हुंति तुलाओ। निरविक्खो जइ तेसिं देइ तओ ते विणस्संति' ॥ १ ॥ ये पुनर्धतिसंहननाभ्यां हीनास्ते असद्विभवैस्तुल्यास्तेषां यदि निरपेक्षः सन् निरवशेष प्रायश्चित्तं ददाति, ततस्ते विनश्यन्ति । तत् प्रायश्चित्तं निरव शेषं वोढुमशक्नुवन्तस्तपसा कृशीकृता जीवितादपगच्छेयुः। 'ते तेण परिचत्ता लिंगविवेगं तु काउं वच्चंति। तित्थुच्छेओ अप्पा एगाणिअ (गिअ) तेण चत्तो य।'
___ यदि वा ते प्रायश्चित्तभग्ना लिङ्गविवेकं कृत्वा व्रजन्ति । ततस्तेन निरव शेषप्रायश्चित्तदात्रा परित्यक्ताः। यथैवमेके एवमन्येप्येवमपरेऽपि ततः सर्वसाधुव्यपगमतस्तीर्थस्योच्छेदः तथा तेनाऽऽचार्येण निरवशेष प्रायश्चित्तं साधूनां ददता प्रायश्चित्तभग्नभयात् साधूनामपगमत आत्मा एकाकीकृतः, एकाकीतया च त्यक्तः चशब्दाद्गच्छोऽपि त्यक्तस्तथाहि-साधूनामपगमे बालवृद्धग्लानादीनामुपग्रहेऽपि न कोऽपि वर्तते, ततस्तेन तत्त्वतस्तेऽपि परित्यक्ताः । गथा धनिकेनीपायवता शनैः शनैरसद्विभवाद्धारकाद्धनं गृहीतं नैकोऽपि क्लेशमापन्न एवमालोचका अपि धृतिसहननादिहीना महत्यामपि प्रायश्चित्तापत्तौ सान्तरदानाद्यनुग्रहवता तपसि प्रवर्तिता न क्लेशमनुभवन्तोत्यलं विस्तरेणेति गाथार्थः ॥ ५१ ।।
उक्तं किमालोचनीयमिति दशमं द्वोरम् । अथ क्रमप्राप्तमपि प्रायश्चित्तद्वारं बहुवक्तव्यत्वादुल्लथाल्पवक्तव्यत्वात् पूर्व फलद्वारमाह
आयरिअपायमूले इअ जो पयडेइ अत्तणो दोसे।
सो जइ न जाइ मुक्खं अवस्स वेमाणिओ होइ ॥ ५२ ॥ जओ
व्याख्या-आचार्याणां-पूर्वव्यावर्णितगुणानां पादमूले-चरणान्तिके यः-कश्चिद् जातिकुलविनयोपशमादिगुणालङ्कृतः सन् । इति-पूर्वोक्तप्रकारेण गुरुगुणानालोचनाविधिं चावबुध्य प्रकटयतिनिर्मायतया सम्यक् प्रकाशयति आत्मनः-स्वस्य दोषानपराधान् , न पुनः परस्य, अपरापराधप्रकाशनस्य हि नूतनकर्मबन्धनिबन्धनत्वेन स्वस्य प्रचुरतरसंसाराभिवृद्धेरितिभावः । स किं प्राप्नोति ? इत्याह-स-पूर्वोदितगुण आलोचको यदि-कथश्चित्कालादिवैषम्यान्न याति-न गच्छति मोक्षमपवर्ग, तथापीत्यध्याहियते, अवश्यंनिश्चितं वैमानिको-विमानवासी सुरो भवति । भवनपत्यादिषु तस्य गमनप्रतिषेधादिति गाथार्थः ।। ५२ ।। एतदेवाहदुक्तत्वज्ञापनपूर्वं दृढयति । जओ 'त्ति । यत इति पूर्वोक्तार्थहेत्वर्थे, तमेवाह
अविराहिअसामण्णस्स साहूणो सावगस्स य जहण्णो । सोहम्मे उववाओ मणिओ तेलुक्कदंसीहिं ॥ ५३॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org