________________
कालतपःपाराञ्चिकस्वरूपम् निवेशनादिके उत्पन्नो दोषः पाराश्चिककारी, उत्पत्स्यते वा यत्र तिष्ठतो दोषस्तज्ज्ञात्वा ततस्ततः क्षेत्रात क्षेत्रपाराश्चिकः क्रियते । कालतपःपाराश्चिकावाह'जत्तिअमित्तं कालं तवसा पारंचिअस्स वि स एव । कोलो दुविगप्पस्स वि अणवटुप्पस्स जो भणिओ' ॥ १ ॥ ‘सूचकत्वात सूत्रस्य' यो यावन्तं कालमुपशान्तदोषोऽनुपरतपाराचिकापत्तिहेत्वतिचारः स सावन्तं कालं कालपाराश्चिकः । तपसा पारात्रिको द्विविधः-आशातनापाराश्चिकः प्रतिसेवनापाराश्चिकश्च । आद्यः प्रागुक्तरूपः । प्रतिसेवनापाराश्चिकस्त्रिधा-दुष्टः प्रमत्तोऽन्योऽन्यं कुर्वाणश्च । तपःपारानिकस्य द्विविकल्पस्यापि स एव कालस्तावत्प्रमाणः समयो यः पूर्वमनवस्थाप्यस्यामिहितः। तस्य चेयं योजना-आशातनातपःपाराश्चिकस्य जघन्येन षण्मासा उत्कर्षेण वर्ष, प्रतिसेवनापाराश्चिकस्य तु जघन्येन वर्षमुत्कर्षतो द्वादश वर्षाणि । तथा पाराश्चिकमप्यनवस्थाप्यमिव संहननादिगुणवत एव दीयते । तपोऽपि परिहारिकाऽऽख्यमनवस्थाप्यस्येव पाराश्चिकस्यापि भवतीत्यलं प्रसङ्गेनेति । नोदकः प्राह-यद्यस्ति प्रायश्चित्तं ततः कस्मात् केचित् कुर्वन्तो न दृश्यन्ते ? । सूरिराह-उपायेन कुवन्ति, ततो न दृश्यन्ते । तथाचात्र धनिकेन सद्विभवोऽसद्विभवाभ्यां धारकाभ्यामधमर्णाम्यां च दृष्टान्तः । एतदेव ब्यवहारभाष्यगाथामिः स्पष्टतरमुच्यते___ 'संतविभवो उ जाहे मग्गिओ ताहे देइ तं सव्वं । जो पुण असंतविभवो तत्थ विसेसो इमो होइ' ॥ १॥ धनिकस्य द्वौ धारको सम्भवतस्तद्यथा-सद्विभवोऽसद्विभवश्च । तत्र यः सद्विभवः स यदेव याच्यते तदेव तत्सर्व दातव्यं ददाति । यः पुनरसद्विभवस्तत्रायं वक्ष्यमाणो विशेषो भवति । तमेवाह'निरविक्खो तिण्णि चयइ अप्पाण धणागमं च धारणगं । साविक्खो पुण रक्खइ अपाण धणं च धारणगं' ॥१॥ धनिको द्विधा-सापेक्षो नाम यो धारकादसद्विभवाद् धनमुपायेन गृहाति, निरपेक्षः कर्कशग्रहेण धनग्राही । तत्र निरपेक्षस्त्रीणि त्यजति । तद्यथा-आत्मानं धनागमं धारकं च । सापेक्षः पुनस्रोण्यपि रक्षति । कथमित्याह
'जो उ असंते विभवे पाए चित्तण पडइ पाडेणं । सो अपाण धणंपि अ धारणगं चेव नासेइ' ॥ १॥ यो धनिको निरपेक्षोऽसद्विभवस्य पादौ गृहीत्वाऽऽत्मीयपदेन सह बद्ध्वा पातेन पतति. स आत्मानं धनं धारकं च नाशयति । यतः स तथा क्लिश्यमानो धनिकं जीविताद्वयपरोपयेत् । यदिवाऽऽमानं विनाशयेत् । यद्वोभयमपि ततस्त्रयस्यापि विनाशः
'जो पुण सहई कालं सो अत्थं लभइ रक्खए तं च । न किलिस्सई सयपिअ एव उवाओ उ सव्वत्थ' यः पुनर्धनिको धारकमसद्विभवं ज्ञात्वोपायेनास्माद्धनमुपादेयमिति विचिन्त्य वक्ष्यमाणप्रकारेण कालं सहते, सोऽयं लभते, तं च धारकं रक्षति, न च स्वयमपि क्लिश्यति । एवमुपायः पुरुषेण सर्वत्र कर्तव्यः ।
'जो उ धारिज वड्ढतं असंतविभवो सयं । कुणमाणो उ कम्मं तु निव्विसे करिसावणं ।।१।।
अणमप्पेण कालेणं सो तगं तु विमोयए। दिळंतो सो भणिओ अत्थोवणओ इमो तस्स ॥२॥ यो धारको रूपकशतं दातव्यं धनिकानुमत्या प्रतिमासं चैकककाकिनीवृद्धया वर्धमानं धारयति-ददातीति
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org