________________
श्राद्धजीतकल्पे
न प्रतिलेख्यम् । भक्तपानं परस्परं न ग्राह्यम् । सङ्घोटकेऽस्य न मिलनीयम् । अनेन सहैकमण्डल्यां न भोक्तव्यम् । किमप्यनेन सार्धं न कार्य कार्यमिति । अधुना गाथाक्षरार्थः-प्रतिपन्नानवस्थाप्यतपाः शक्षादीनपि वन्दते, न चासौ वन्द्यते । परिहारतपश्च-परिहारिकसाधूनां तपः ग्रीष्मे चतुर्थषष्ठाष्टमानि, शिशिरे षष्ठोष्टमदशमानि, वर्षास्वष्टमदशमद्वादशानि जघन्यमध्यमोत्कृष्टानि । पारणके च निर्लेपभक्तमित्येवरूपं सुदुश्चरं तपश्चरति । संवासो-सह वासो गच्छेनास्यकक्षेत्रे एकोपाश्रये एकस्मिन् पार्श्व शेषसाध्वपरिभोग्यप्रदेशे कल्पते, नाऽऽलपनादीनि शेषाणीत्येष सक्षेपतोऽनवस्थाप्यविधिः । उक्तमनवस्थाप्याई, साम्प्रतं पाराश्चिकमाह
तित्थयर-पवयण-सुअं आयरिअंगणहरं महड्ढीयं । आसायंतो बहुसो अभिनिवेसेण पारंची ॥ १॥ तीर्थकरादीनाशातयन्-हीलयन्नाशातनापाराश्चिको भवति । प्रतिसेवनापाराश्चिकमाह
जो उसलिंगे दुरो कसायविसएहिं रायवहगो य । रायग्गमहिसिपडिसेवओ य बहुसो पगासो उ ॥ १ ॥ इह प्रतिसेवनापाराश्चिकनिधा-दुष्टो मूढोऽन्योऽन्यं कुर्वाणश्च । तत्र दुष्टो द्विधा-कषायतो विषयतश्च । पुनरेकैको द्विधा-स्वपक्षे-श्रमणश्रमणीरूपे परपक्षे-गृहस्थेऽन्यतीर्थे वा । अत्र च स्वपक्षपरपक्षाभ्यां कषायविषयदुष्टयोश्चत्वारश्चत्वारो भङ्गाः पूर्ववदवसेयाः। स्वपक्षकषायदुष्टयोरुदाहरणानि शास्त्रान्तरतोऽवसेयानि । परपक्षयोस्त्वाह- रायवहगो अ 'त्ति । परपक्षकषायदुष्टस्तु राजवधक -उदायिनृपमारकवत् । परपक्षविषयदुष्टस्तु बहुशः-पौनःपुन्येन प्रकाशो-लोकतः विदितः राजाग्रमहिषीप्रतिसेवकः, अग्रमहिषीग्रहणादन्यापि राज्ञो या काचिदिष्टा तत्सेवकश्च, चशब्दाद् युवराजसेनापत्याद्यग्रमहिषीसेवकश्च द्वावप्येतौ लिङ्गपाराश्विको । उक्तो दुष्टपाराश्चिकः । मूढः-प्रमत्तः, स तु पञ्चधा-कषायविषय-मद्य-न्द्रिय-निद्राख्यैः प्रमादभेदैविस्तरेणाऽऽख्येयः । अन्योऽन्यं-पुरुषः पुरुषान्तरेण मैथुनाऽऽसे. वायां प्रसक्तोऽन्योऽन्यं कुर्वाणः । एवं प्रकारः पाराश्चिकः क्रियत इत्यर्थः । एतदेवाह
सो कीरइ पारंची य लिंगाओ खित्तकालओ तवओ । संपागडपडिसेवी लिंगाओ थीणगिद्धी अ ॥ ५ ॥ पाराश्चिकश्चतुर्द्धा-लिङ्गतः क्षेत्रतः कालतस्तपोविशेषतश्च । अत्रापि द्रव्यभावलिङ्गाभ्यां चतुर्भङ्गी पूर्ववत् ज्ञेयो । तत्र सम्प्रकटप्रतिसेवी राजाप्रमहिष्यादिसेवकः स्त्यानर्द्धिमांश्च, चशब्दादन्योऽन्यासेवनाप्रसक्तो राजवधकश्च लिङ्गतः पाराश्चिको-द्रव्यभावलिङ्गाभ्यां पाराश्चिकः क्रियत इत्यर्थः । क्षेत्रपाराश्चिकं गाथाद्वयेनाह
वसहिनिवेसणपाडगसाहिनिओगपुरदेसरज्जाओ। खित्ताओ पारंची कुलगणसंघालयाओ वा ।।१।।
जत्थुप्पन्नो दोसो उप्पज्जिस्सइ य जत्थ नाऊणं । तत्तो तत्तो कीरइ खित्ताओ खित्तपारंची ।।२।। वसतिः-प्रस्तावाद् ग्रामः, निवेशनम्-एकनिर्गमप्रवेशद्वारो प्रामयोरन्तराले द्वयादिगृहाणां संनिवेशः, एवविधस्वरूप एव ग्रामान्तर्गतः पाटकः, साही-शाखास्वरूपेण श्रेणिक्रमेण स्थिता गृहाणामेकतः परिपाटिः, नियोगपुरं-निश्चिता योगा- दिनकृत्यव्योपारा यस्य स नियोगो-राजा तस्य पुरं-राजधानी, देशो-जनपदः, राज्य-राष्ट्र यावत्सु देशेष्वेकभूपतेराज्ञा तावद्देशप्रमाणम् । एषां द्वन्द्वस्तस्मात्क्षेत्रात् पाराचिकः कुलगणसङ्घालयाद्वा-कुलगणसङ्घाः प्रतीतास्तेषामा-सामस्त्येन यत्र क्षेत्रे लयनं-मिलनं तस्माद्वा । यत्र क्षेत्रे वसति
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org