________________
तपसाऽनवस्थाप्यस्वरूपम्
द्विधा-आशातनाऽनवस्थाप्यः प्रतिसेवनाऽनवस्थाप्यश्च । तत्र जिनादीनां-तीर्थकर-सङ्घ-श्रुता-ऽऽचार्यमहद्धिक-गणधराणामाशातनां यः कुर्यात् , यथा-तीर्थकरैः सर्वोपायकुशलरपि गृहवासत्यागादिकाऽतिकर्कशा देशना कृता, यदि गृहवासो न श्रेयान् ततः किमिति स्वयं गृहवासे वसन्ति स्म भोगांश्च भुक्तवन्त ? इत्येवं तीर्थकृतोऽधिक्षिपेत् सङ्घ च दृष्ट्वाऽवज्ञया वदेत्-हुं हुं दृष्टा मयाऽरण्येऽपि सङ्काः शृगालश्वान-वृक-चित्रकादीनामिति । श्रुतं चैवमधिक्षिपति यथा
'काया वया य तेञ्चिय पुणोवि ते चिय पमाय-अपमाया । मोक्खस्स देसणाए जोइसजोणीहि किं कज ? ॥ १॥ आचार्य जात्यादिभिरधिक्षिपति । महर्धिकांग्ध, गणभृतो गौतमादयः । यो वा यस्मिन् युगे प्रधानभूतास्तान ऋद्धि-रस-सातगौरवप्रसक्ताः कथका इव लोकावर्जनोद्यता एते इत्यादिवाक्यैरधिक्षिपति । स आशातनाकारित्वादाशातनातपोऽनवस्थाप्यः । म जघन्येन षण्मासानुत्कषतः संवत्सरं यावत्तपः कुर्वन् कर्त्तव्यः । तावता च तपसा क्षपिताशातनाजनितकर्मत्वात्तदूर्ध्व महाव्रतेषु स्थाप्यते । प्रतिसेवनानवस्थाप्यमाह
'वासं बारस वासा पडिसेवी कारणाउ सम्वोवि। थोवं थोवयरं वा वहिज्ज मुंचिज्ज वा सव्वं ॥१॥ प्रतिसेवी-प्रतिसेवनानवस्थाप्यः साधर्मिकाऽन्यधोमिकस्तैन्याभ्यां परमरणभयनिरपेक्षयष्टिमुष्टिलकुडादिप्रहारप्रदानलक्षणहस्ततालादिभिश्च भवति । स च जघन्यतो वर्षमुत्कर्षतो द्वादशवर्षाणि तदनन्तरं प्रतेषु स्थाप्यते । स चानवस्थाप्यः संहननादिगुणयुक्त एव क्रियते, अन्यस्य तु मूलमेव दीयते । तथा चोक्तम्'संघयणवीरिय आगम सुत्तत्यविहीइ जो समग्गो य । तवसी निग्गहजुत्तो पवयणसारे अ गहिअत्थो ।। तिलतुसतिभागमित्तो वि जस्स असुहो न विजई भावो। निजूहणारिहो सो सेसे निजूहणा नत्थि ।।२।। ___एय गुणसंपउत्तो पावइ अणवट्ठ मुत्तमगुणोहो । एअ गुणविप्पहीणे तारिसगंमी भवे मूल ' ॥३॥ तवसी-तपश्चरणवान् निग्गहजुत्तो-जितेन्द्रियः निज्जूहणारिहो-गच्छात पृथक्करणाहः । अपवादतस्त्व. नन्यसाध्यकुलगणसङ्घकार्यकारीत्यतः कारणान् सर्वोऽपि-द्विप्रकारोऽपि आशातनानवस्थाप्य-प्रतिसेवनानवस्थाप्यलक्षणस्तत्तपो न कारयेदित्यर्थः । यस्त्वनवस्थाप्यतपः प्रतिपद्यते तद्विधिमाह
'वंदइ न य वंदिजइ परिहारतवं सुदुच्चरं चरइ । संवासो से कप्पइ नालवणाईणि सेसोणि' ॥ १ ॥ अनवस्थाप्यतपश्चरणकरणकालं यावत् स्वगण गीतार्थे निक्षिप्याचार्य उपाध्याये वा प्रशस्तेषु द्रव्यक्षेत्रकालभावेषु स्वातिचारं प्रकाशयति, तदनन्तरं तस्मिन् जघन्येन मासमुत्कर्षतः षण्मासोदिकमनवस्थाप्यतपः प्रतिपद्यमाने आलोचनादायकः कार्योत्सर्ग करोति ।।
_ 'एअस्स आयरिअस अणवटुप्पतवस्स निरुवसग्गनिमित्तं ठामि काउस्सग्गं अन्नत्थ उससीएण 'मित्यादि 'वोसिरामी 'तियावत् । चतुर्विशतिस्तवमनुचिन्त्य पारयित्वा चतुर्विशतिस्तवमुच्चार्याऽऽचार्यों वक्ति
'एस तवं पडिवज्जइ न किंचि आलवह मा य आलवहा । अत्तचिंतगस्स उ वाघाओ भे न कायव्वो' ॥१॥ एष युष्मानालापयिष्यति, युष्माभिरप्येष नालाप्यः। सूत्रार्थों शरीरवाता वा न प्रक्ष्यति, युष्माभिरपि न प्रष्टव्यः । खेलमल्लकमात्रादिकं वा नाऽस्य ग्राह्यमर्पणीयं वा । उपकरणं परस्परं
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org