________________
त्रिषष्टयधिकशतत्रयं परदर्शनिनः धर्मकथी-आक्षेपणीविक्षेपणीनिर्वेदनीसंवेदनीकथाभियों धर्ममाख्याति ३ । वादी-वादलब्धिसम्पन्नः ४ । आचार्यः-स्वपरसिद्धान्तप्ररूपकः ५ । क्षपकः-तपस्वी ६ । नैमित्तिकः-अष्टाङ्गनिमित्तवेत्ता ७ । विद्याग्रहणाद्विद्यासिद्धः आर्यखपुटाचार्यवत् ८ । राजगणसम्मताश्च । तत्र राजसम्मता मन्त्र्यादयः, गणसम्मता महत्तरादयः चशब्दादानश्राद्धादिपरिग्रहः । एते तीर्थ-प्रवचनं प्रभावयन्ति । स्वतः प्रकाशकस्वभावमेव सहकारितया प्रकाशयन्तीति । कुतीर्थिकविषया त्वप्रशस्ता ८ । इह चोपड़हादीनां प्रशस्तानां यथाशक्त्यकरणे अप्रशस्तानां तु करणे अतिचारता । देशसर्वभेश्वोपबृहादीनामपि शङ्कादीनामिव ज्ञेयः । अथ गाथाव्याख्या-शङ्कादिषु-शङ्काकाङ्क्षाविचिकित्सासु देशे चउलहु' इत्येतस्य द्वितीयगाथास्थस्य सर्वत्र योगाद्देशतश्चतुर्लघुध तथा ' मूढदिट्टी यत्ति । मूढदृष्टित्वे ' पासत्थाइ 'त्ति । पार्श्वस्थावसन्नादयो द्रव्यलिगिनो मुनयः, कुदृष्टयो-मिथ्यादृष्टयः परतीर्थिकाः तेषां वात्सल्ये । तथा तैः सह संस्तवे-ऽतिपरिचये। प्रशंसायां-मिध्यादृष्टचादीनामुपबृ हणार्या च देशतश्चतुर्लघुध । इह किल मिथ्यादर्शनिनोऽपरिमितास्तदुक्तं सम्मतिसूत्रे श्रीसिद्धसेन दिवाकरेण
___ 'जावइया वयणपहा तावइया चेव हुंति नयवाया । जावइया नयवाया तावइया चेव परसमया' ॥ १ ॥ यावन्तो नयबादा-एकैकांशावधारणवाचकशब्दप्रकारास्तावन्त एव परसमयाः-परदर्शनानि भवन्ति, स्वेच्छाप्रकल्पितविकल्पनिबन्धनत्वात् परसमयानाम् । अयं भावः-यावन्तो जने तत्तदपरा. परवस्त्वेकदेशानामवधारणप्रतिपादकाः शब्दप्रकारा भवेयुस्तावन्त एव परसमया भवन्ति । ततस्तेषामपरिमितत्वमेव । स्वकल्पनाशिल्पिघटितविकल्पानामनियतत्वात् तदुत्थप्रवादानामपि तत्सङ्ख्यापरिमाणत्वादिति । तदेवं गणनातिगा मिथ्यादर्शनिनो भवन्ति । यद्वा-सूत्रकृताख्ये द्वितीयेऽङ्गे परप्रावा. दुकानां-परदर्शनिनां त्रीणि शतानि त्रिषष्टयधिकानि परिसङ्ख्यायन्ते । तदर्थसङ्ग्रहगाथेयम्
'असीइसयं किरिआणं अकिरिअवाईण होइ चुलसीई । अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा॥१॥ अस्या लेशतोऽक्षरगमनिका-' असीइसयं किरियाणं 'ति । अशीत्युत्तरं शतं क्रियावादिनाम् । तत्र क्रियां-जीवाद्यस्तित्वं वदन्तीत्येवंशीलाः क्रियावादिनो-मरीचि-कुमार-माठरोल्कप्रभृतयः। ते पुनरमुनोपायेनाशीत्यधिकशतसया विज्ञेयाः। जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यानवपदार्थान् परिपाटचा पट्टकादौ विरचय्य जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ । तयोरधो नित्यानित्यभेदौ । तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः । ततश्चैवं विकल्पाः कर्तव्याः'अस्ति जीवः स्वतो नित्यः कालत' इत्येको विकल्पो, विकल्पार्थश्चायं खलु-अयमात्मा स्वेन रूपेण नित्यश्च कालवादिना मत इति । उक्तेनेवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिकः । तृतीयो विकल्प आत्मवादिनः 'पुरुष एव इदं सर्वम्' इत्यादि । चतुर्थो विकल्पो नियतिवादिनः । पञ्चमो विकल्पः स्वभाववादिनः । एवं स्वत इत्यनेन लब्धाः पञ्च विकल्पाः । एवं परत इत्यनेनापि पञ्चव लभ्यन्ते । एते च नित्यत्वापरित्यागेन दश विकल्पाः। एवमनित्यत्वेनापि दशैव । एकत्र मिलिता विशतिर्जीवपदार्थेन लब्धाः । एवमेवाजीवादिष्वष्ठखपि प्रतिपदं विंशतिविकल्पानां भावाविंशतिर्नवगुणिता जातमशीत्युत्तरं शतं क्रियावादिनामिति ।
_ 'अकिरियवाईण होइ चुलसीई 'त्ति । अक्रियावादिनां चतुरशीतिः । तत्र न कस्यचित प्रति
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org