________________
भावजीतकरुपे व्याख्या-लघुता, यथा भारवाही अपहृतभारो लघुर्भवति तथा आलोचकोऽप्युद्धृतमनःशल्यः पापभारापगमादेकान्तलघुर्भवति । यद्वक्ष्यति-' कयपावोवि मणूसो' इत्यादि । तथा 'हाईजणणं'ति । हादिजननं हादै सुखे चेति भौवादिको धातुस्ततः हादनं हादिरौणादिक इप्रत्ययः प्रहति प्रह्लादिः तस्या जननं हादिजननं-प्रमोदोत्पाद इतियावत् । भवति हि संविग्नानां परममुनीनां पापशल्यापगमतो महान् प्रमोद इति । 'अप्पपरनिअत्ति 'त्ति । आत्मपरनिवृत्तिदोषेभ्य इतिशेषः । आलोचना. प्रदानतः स्वयमात्मनो दोषेभ्यो निवृत्तिः कृता, तं च दृष्ट्वाऽन्येऽप्यालोचनाभिमुखा भवन्ति इत्यन्येषामपि दोषेभ्यो निवर्त्तनमिति । तथा ' अज्जवं 'ति । यदतिचारजातं प्रतिसेवितं तत्परस्मै प्रकटयता स्वयमात्मन आर्जवं सम्यग भावितं भवति । आर्जवं नाम अमायाविता । तथा शोधिः-अतीचारपङ्कमलिनस्यात्मनश्चरणस्य वा प्रायश्चित्तजलेनातीचारपङ्कप्रक्षालनतो निर्मलता। तथा दुष्करकरणं दुःकरकारिता तथाहि-यत् प्रतिसेवनं तन्न दुःकरमनादिभवाभ्यस्तत्वात् , यत् पुनरालोचयति तद्दःकरं प्रबलमोक्षानुयायिवीर्योल्लासविशेषेणैव तस्य कर्तुं शक्यत्वात् तस्य करणं दुःकरकरणं तत एव मासक्षपणादिभ्योऽपि सम्यगालोचनाङ्गीकारस्याऽभ्यन्तरतपोभेदत्वेन दुःकरत्वं लक्ष्मणार्यादीनां तथाश्रवणात् । तथाचाऽऽज्ञा तीर्थकृतामाराधिता भवति । 'विणओ 'त्ति पाठे तु आलोचयता चारित्रविनयः सम्यगुपपादितो भवति । निःशल्यत्वं च प्रागुक्तशल्याभावश्च प्रतिपद्यत इति । यदुक्तं श्रीमदुसराध्ययने
'आलोअणयोए णं भंते ! जीवे किं जणयइ ?, आलोअणयाए णं मायानियाणमिच्छादरिसणसल्लाणं मुक्खमग्गविग्घाणं अणंतसंसारवड्ढणाणं उद्धरणं करेइ । उज्जुभावं च णं जणयइ । उज्जुभावपडिवण्णे य णं जीवे अमाई इत्थीवेअं नपुंसगवेअं च न बंधइ, पुव्वबद्धं च णं निज्जरेइ 'त्ति । 'सोहिगुण 'त्ति । शुद्धः-आलोचनाया अमी उक्तस्वरूपा इहापि भवे गुणा अवगन्तव्या इति गाथार्थः ॥ १९ ॥
अथागीतार्थस्य पार्वे आलोचनाया दाने दोषा भवन्तीत्यष्टमं द्वारमाह
अग्गीओ न वियाणइ सोहिं चरणस्स देइ ऊणहियं ।
तो अप्याण आलोअगं च पाडेइ संसारे ॥२०॥ व्याख्या-'अग्गीओ'त्ति पदेकदेशे पदसमुदायोपचारादगीतार्थः-छेदश्रुतसूत्रार्थानमिज्ञो न विजानाति शुद्धि-शुद्धिप्रकारं चरणस्य-सर्वविरतिरूपस्य देशविरतिरूपस्य वा चारित्रस्यातिचारमलमलिनस्य । इयता प्रायश्चित्तजातेन इयतः सर्वविरतेर्देशविरतेर्वाऽतिचारस्य शुद्धिर्भवतीत्यादिरूपं शोधनप्रकारमगीतार्थों न जानातीत्यर्थः । अत एव सूत्रोक्तादूनमधिकं वा प्रायश्चित्तं ददाति । एवं च को दोष ? इत्याह'तो'त्ति ततो न्यूनाधिकप्रायश्चित्तप्रदानत आत्मानमुत्सूत्राचरणप्रवृत्तत्वादालोचकं च तद्दत्तप्रायश्चित्तेनातिचारकालुष्यानपगमात् पातयति संसारे-चतुतिलक्षणे इति गाथार्थः ॥ २० ॥
कुत एवं १ यत आह
जो अमुणंतो सुद्धि अपच्छित्ते य देइ पच्छित्तं । पच्छित्ते अइमत्तं आसायण तस्स महई उ ॥२१॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org