SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ सम्यगालोचनागुणाः वानिति । अमायिनोऽप्रतिकुश्चितं निर्मायमालोचयन्ति । चरणयुताः पुनरतिचारं प्रायो न कुर्वन्ति अनालोचिते वा चारित्रं मे न शुद्धथतीति सम्यगालोचयन्तीति गाथाभावार्थः । उक्तगुणस्यालोचकस्यालोचना निर्जरा फला भवति । उक्तगुणरहितस्य त्वालोचनायाः प्रायः प्रयासमात्रफलत्वादित्यत एतदर्जने यतनीयं निर्जरार्थिनेति ।। अथेह के दोषा ? इति षष्ठं द्वारं व्याचिख्यासुरालोचकस्य दश दोषानाह आकम्पइत्ता अणुमाणइत्ता जं दि8 बायरं व सुहुमं वा । छन्नं सदाउलयं बहुजण अवत्त तस्सेवी ॥ १८ ॥ व्याख्या-'आकम्प्ये 'ति । अयं गुरुवैयावृत्त्यकरणादिमिरावर्जितः सन् मम महत्यप्यपराधे यथा लघीयांसं प्रायश्चित्तं दण्डं ददातीत्यभिप्रायेणाऽऽलोचनाचार्यमावर्ण्य यदालोचयति स प्रथम आलोचनादोषो भवतीतिक्रियासम्बन्धो वाच्यः १ । तथा अनुमान्य-अनुमानं कृत्वा लघुतरापराधनिवेदनादिनो मृदुदण्डप्रदायकत्वादिस्वरूपमालोचनाचार्यस्याकलय्यालोचयति । अथवा गुरुप्रायश्चित्ताहमपराधजातं वचनप्रकारेण लघुप्रायश्चित्ताह कृत्वाऽऽलोचयति । यद्वा-अमुकेनामुकमोलोचितं तस्येदं प्रायश्चित्तमायातम् अहमपि तदनुसारेणालोचयामि यथा तावतैव प्रायश्चित्तेन मुक्तो भवामि नाऽधिकं कर्तुं क्षमोऽहमित्यभिप्रायेणेति द्वितीय आलोचनादोषः । यद् दृष्टं गुरुमिरन्येन वा साधुना गृहस्थादिना वाऽनाचरणीयमाचर्यमाणं तदेवाऽऽलोचयति न पुनरदृष्टमिति तृतीयः । 'बायरं वत्ति । वाशब्दस्य विकल्पार्थत्वाद् बादरं वा बादरमतिचारजोतमालोचयति न तु सूक्ष्मं तत्रावज्ञापरत्वादिति चतुर्थः । 'सुहुमं व 'त्ति । अत्रापि वाशब्दस्य विकल्पार्थत्वात् सूक्ष्मं वा तृणादिग्रहणरूपमालोचयति न तु बादरं, यः किल सूक्ष्ममप्यालोचयति स कथं बादरं स्वर्णमाणिक्यादिग्रहणरूपं सन्नालोचयेदित्येवंरूपभावसम्पादनायाचार्यस्येति पञ्चमः । छन्नं-मन्दस्वरमालोचयति लज्जालुतामुपदर्य यथा स्वयमेव शृणोति न गुरुस्तथैवाव्यक्तवचनेनालोचयतीत्यर्थः। शब्दाकुलं यथा स्यात्तथाऽऽलोचयति यथा गुरुरकृत्यं सम्यग नावगच्छति, सम्यगनवगतापराधश्च गुरुर्मे स्वल्पं प्रायश्चित्तं दद्यादिति भाववान् । यद्वा-शब्दाकुलं-बृहच्छब्दं यथा भवत्येवमालोचयति अमीतार्थादीनपि श्रावयतीत्यर्थः इति सप्तमः । 'बहुजण 'त्ति । बहुजनेभ्यः स्वकृतमपराधं कथयति न तु गुरुपुरत एव । अथवा बहवो जना-आलोचनागुरवो यत्र तद् बहुजनमालोचनम् एकस्याप्यपराधस्य बहुभ्यो निवेदनमित्यर्थ इत्यष्टमः । 'अवत्त 'त्ति । अव्यक्तम्-अव्यक्तस्यानवगतछेदग्रन्थरहस्यस्य गुरोः पुरतो यदालोचनं तदप्युपचारादव्यक्तमिति नवमः । ' तस्सेवि 'त्ति । तदेवापराधपदं-स्वकृतापराधसदृशं यो गुरुः सेवते स तत्सेवी, तत्सकाशे शुद्धिं याचते । एष ममातिचारेण तुल्यस्ततो न किमपि प्रायश्चित्तं दास्यति, न च मां खरण्टयिष्यति-यथा विरूपं कृतं त्वयेत्यादिमनःपरिणामवानिति दशमः । एतेषां दशानामप्यालोचनादोषाणां स्वरूपमवेत्यालोचकेनामी सम्यग् वर्जनीया मोक्षार्थिनेति भावार्थः ।। १८ ।। अथ सम्यगालोचने के गुणा ? इति सप्तमद्वारमाह लहुआ हाईजणणं अप्पपरनिअत्ति अज्जवं सोही । दुक्करकरण' आणा निस्सल्लत्तं च सोहिगुणा ॥ १९ ॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002631
Book TitleSaddha Jiyakappo
Original Sutra AuthorN/A
AuthorDharmghoshsuri
PublisherJain Shwetambar Murtipujak Sangh Surat
Publication Year2006
Total Pages96
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy