________________
अगीतार्थस्य आलोचनादाने दोषाः
व्याख्या - यः कश्चिद्गीतार्थादिः छेदश्रुतानभिज्ञत्वेन 'अमुणंतो'ति । अमन्वानो -ऽजानन् शुद्धिशुद्धिप्रकारं द्रव्य-क्षेत्र-काल-भाव- पुरुषप्रतिसेवनाद्यौचित्येन प्रायश्चित्तप्रदानलक्षणाम् । किं करोति ? इत्याहअप्रायश्चित्ते-प्रायश्चित्तानुचिते आलोचितेऽतिचारं विनैवेत्यर्थः, ददाति प्रायश्चित्तम् । चशब्दो व्यवहितसम्बन्धत्वात् 'पच्छित्ते ' इत्यत्र पुरस्ताद्योजयिष्यते । तथा 'पच्छित्ते 'ति । प्रायश्चित्तार्हे चालोचितेऽतिमात्रंसूत्रोक्तादतिरिक्तं प्रायश्चित्तं ददाति । तस्य किं स्यादित्याह - आशातना - ज्ञानाद्योयशाटस्वरूपा तस्याऽविधिप्रायश्चित्तप्रदायकस्य तुशब्दस्यावधारणार्थत्वेन महत्येव भवत्यनन्तसंसारवर्द्धकत्वादिति । तथा चोक्तम्' अपच्छित्त अपच्छित्तं पच्छित्ते अइमत्तया । धम्मस्सासायणा तिव्वा मग्गस्स य विराहणा ' इति गाथार्थः ।। २१ ।
एवं च सति किं स्याद् ? इत्याह
आसायण मिच्छत्तं आसायणवज्जणा उ सम्मत्तं । आसायणनिमित्तं कुव्व दीहं च संसारं ॥ २२ ॥
व्याख्या - आशातना मिध्यात्व हेतुत्वान्मिथ्यात्वम् । यद्वा-आशातनैव साक्षान्मिथ्यात्वं, द्वयोरपि ज्ञानादिशाटरूप स्वरूपस्याविशेषात् । आशातनावर्जना तु साक्षात्सम्यक्त्वम् । तद्वर्जनपरिणामस्य सम्यक्त्वरूपत्वात् । अत एवागीतार्थोऽविधिप्रवृत्तेराशातनानिमित्तम्- आशतिनाप्रत्ययं आशातनया - हेतुभूतयेत्यर्थः । करोति दीर्घं-प्रभूतकालानुभवनीयं, चशब्दादसात वेदनीयं बहुलं संसारं - भवभ्रमणमितिगाथार्थः ।। २२ ।।
एवं चागोतार्थस्य पुरत आलोचनाप्रदानमपायपरम्परा हेतुर्भवतीत्युक्तम् । अथ गीतार्थोऽपि सारणादिरहितः परिहार्य एव भवतीत्येतदर्थ ख्यापनार्थमाह
जह सरणमुवगयाणं जीवाणं निर्कितए सिरे जो उ । एवं सारणियाणं आयरिय असारओ गीओ ॥ २३ ॥
१७
व्याख्या-‘यथे’त्युपदर्शने । यथा शरणं भयार्त्तत्राणलक्षणमुपगतानां - सामीप्येन प्राप्तानां जीवानां शिरांसि निकृन्तति-छिनन्ति यः - पापीयान् । तुः सम्भावने । सम्भाव्येतैवंविधः कोऽपि क्लिष्टकर्मा विश्वस्तघातकः । एवमनेनैवोपमानेन सारणीयानां - सारणायोग्यानां संयमयोगेषु प्रमादच्यावनेन प्रवर्त्तनीयानां स्मारणीयानां वाऽज्ञानप्रमादादिना विस्मृतेषु करणीययोगेषु स्मारणार्हाणां शरणमुपगतानां साधूनामपीति शेषः । आचार्योऽसारको -ऽस्मारको वा भावनीयः । सोऽपि शरणोपगतशिरोनिकत्र्तक इवैकान्तेनाहितका रीति भावः। शरणमुपगतानां संसारापारपारावारे निरनुकम्पं प्रक्षेपणात् । स च तादृश इहपरलोकार्थिना परित्याज्यः । यस्तु खरपरुषभणनेनापि संयम योगेषु सीदतः सारयति - प्रवर्त्तयति स संसारनिस्तारकत्वादे कान्तेन हितकारीत्याश्रयणीयः । यदुक्तम् —
'जोहाए विलिहंतो न भद्दओ जत्थ सारणा नत्थि । दंडेणवि ताडितो स भद्दओ सारणा जत्थ ' ॥१॥ ( व्यवहारभाष्ये) इत्यादि । उपलक्षणत्वादविधिप्रवृत्तादीनां वारणाद्यकर्त्ता । तथाचोक्तं सोरणादिखरूपम् -
३
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org