________________
आलोचनाविधिः अथ 'यथोद्देशं निर्देश' इति प्रथमालोचनाद्वारमुच्यते । तत्र येन विधिनाऽऽलोचना प्रदीयते तामाह
आलोयणा सपक्खे चउकन्ना इह छकन्न परपक्खे ।
संविग्गभाविएणं दायव्व विहीइ जं भणिअं ॥३॥
व्याख्यो-आलोचना-स्वापराधप्रकाशनरूपा गुरोः पुरतः पुरुषादिना दातव्येति सम्बन्धः । कथम्भूता ? इत्याह-'सपक्खे चउकन्न 'त्ति । पुरुषः पुरुषस्यालोचनां ददाति स्त्री स्त्रियाश्च तदा स्वपक्षस्तस्मिन् स्वपक्षे पुरुषादौ गुरौ पुरुषादिकमालोचनादायकमाश्रित्य चतुःकर्णा-द्वौ गुरोः कर्णों द्वौ चालोचनादायकस्येति चतुर्णामेव कर्णानां भावात् । पुनः कथम्भूता ? इत्याह-' इह छकन्न परपक्खे 'त्ति । इह-प्रवचने-श्रीजिनागमे, न तु परतीर्थिकग्रन्थेषु, यत एवंरूपस्य-वक्ष्यमाणसूक्ष्मदोषपरिहारप्रावीण्यस्य तेष्वसद्भावात् । यदा सो पुरुषस्यालोचनां ददाति, पुरुषः स्त्रिया वा तदा परपक्षस्तस्मिन् परपक्षे पुरुषादौ गुरौ स्त्र्यादिकमालोचनादायकमाश्रित्य षटकर्णा-द्वौ गुरोः कर्णों द्वयोः स्त्र्यादिकयोरालोचकयोश्चवार इति षण्णामेव कर्णानां सद्भावात् । यतः सूत्रे तज्जातीयद्वितीययुक्तस्यैव योषिदादेरालोचनादोनमनुज्ञातं, न त्वेकाकिनः तथात्मपरोभयसमुद्भवदोषसम्भवात् अज्ञातस्वरूपाणां किमेतौ प्रच्छन्नमालोचयत इति शङ्काभावाच्च । कीदृशेन शिष्येण दातव्या ? इत्याह-'संविग्गभाविएणं 'ति । संविग्नो-मोक्षामिलाषी भावितः-श्रीजिनागमवासितान्तःकरणः, संविग्नश्चासौ भावितश्चेति विग्रहः तेन । कथमित्याह-विधिना ऋजुस्वादिना चतुर्थद्वारे-'जह बालो जंपंतो' इत्यादिवक्ष्यमाणलक्षणेन ईर्यापथिकीप्रतिक्रमणशोधिसन्देशनाद्यर्थमुखवत्रिकाप्रतिलेखनवन्दनकप्रदोनादिलक्षणेन शास्त्रान्तरप्रसिद्धेन वा । यस्तु विधिना नालोचयति किन्तु लज्जादिमिः स्वपापानि गोपायति तस्य शुद्धिर्न भवति । 'जं भणिअं 'ति । यतः कारणाद् भणितं-सूत्रे च वक्ष्यमाणमेवं रूपं प्रतिपादितं विद्यते ॥ ३ ॥
किं तद् भणितमित्याह
न हु सुज्झई ससल्लो जह भणि सासणे धुअरयाणं ।
उद्धरिअसव्वसल्लो सुज्झइ जीवो धुअकिलेसो ॥ ४ ॥
व्याख्या-हुशब्दस्यैवकारार्थत्वात् न हु-नैव शुद्धथति-अतिचारमलसमुद्भवकालुष्यविरहितो न भवत्येव । क ? इत्याह-सशल्यः-संयमशरीरोपघातकारित्वात् शल्यम्-अतिचारजातं ततो लज्जादिमिरनालोचितेन शल्येन सह वर्त्तत इति सशल्यो, जीव इतिगम्यते । कुत एवमुच्यत ? इत्याह-यथा-येन हेतुना भणितं-प्रतिपादितं शासने-प्रवचने, केषाम् ? इत्याह-धूतरजसां-विधूतसमस्तकर्मणां जिनेन्द्राणामिन्यर्थः। किं भणितम् ? इत्याह-उद्धृतसर्वशल्यो-ज्ञानादिविषयाऽशेषसूक्ष्मबादरातिचारप्रकटनेन समुत्खा. ताऽखिलभावशल्यः शुद्ध यति-सकलापराधपदोद्भूतकालुष्यापनयनेन निर्मलो भवति जीवः । विशेषणद्वारेण हेतुमाह-धूतक्लेशो-विधूतकषाय इत्यर्थः । कषाया हि कर्मोपादानस्याविकलंकारणं तेषु च सत्सु न कपश्चनाप्यात्मनः सम्यग् निःशल्यता शुद्धिश्च स्यादिति गाथार्थः ॥ ४ ।।
एवं सति यद्विधेयं तदाह
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org