________________
श्राद्धजीतकल्पे तदभावे श्रुतव्यवहारिभ्यो प्राचं, ते हि श्रुतमनुवर्त्तमाना इङ्गिताकारनेत्रवक्त्रवचनविकारैर्भावसंवेगाद्यमुपलक्ष्य त्रीन वारानालाचनां कारयित्वा परिकुश्चितमपरिकुञ्चितं वा ज्ञात्वा श्रुतोक्तं प्रायश्चित्तं ददति । तथाविधासनश्रुतधराभावे आज्ञाव्यवहारेण दूरस्थानामपि गीतार्थाचार्याणां पार्थात् प्रायश्चित्तमानायितव्यम् । तेषामप्यभावे श्रुतधरपाविधारितप्रायश्चित्तपदेभ्यो धारणाव्यवहारिभ्यो ग्राह्यम् । ते च द्वयेऽपि श्रुतोक्तप्रदत्वात श्रुतव्यवहारकल्पा एव । सर्वेषां चैषामप्राप्तौ जीतेन व्यवहारः । जोतं-श्रुतोक्तापत्तितो हीनमधिकं वा परम्परयाऽऽचीर्णं तेन व्यवहारः । अयं च यावत्तीयं भवतीति । अस्य च जीतकल्पस्य विवरणं सक्षेपेण च विधास्यते । ततोऽत्र गाथानामक्षरार्थ एव ज्ञातव्यः । शब्दव्युत्पत्तिः संस्कारश्च खयमेव ज्ञातव्यौ, केवलस्य समुदायार्थमात्रस्योत्र कथनात् । तथा सूत्रसामस्त्येन साक्षादनुक्तमपि चशब्दादिसूचितं किश्चित् [किश्चिद्] विशेषार्थजातं भणिष्यते । यतो भवति हि कचित् सूत्रे साक्षादनुक्तस्यान्यथोक्तस्य वाऽर्थविशेषस्य प्रतिपत्तिः प्राकृतत्वात् । १ । कापि सूचामात्रकृतत्वात सूत्रस्य । २ । काप्युपलक्षणव्याख्यानात् । ३ । पदैकदेशे पदसमुदायोपचारात् । ४ । विभक्तिव्यत्ययात् । ५ । वचनव्यत्ययात् । ६ । लिङ्गव्यत्ययात् । ७ । विभक्तेर्लोपात् । ८ । क्रियाध्याहारात् । ९ । सम्भवचशब्दा. ध्याहारात् । १० । हस्वा । ११ । ऽनुस्वार । १२ । द्विर्भावानां यथौचित्येन भावाभावाभ्यां । १३ । बहुवचनप्रयोगेऽपि द्विवचनस्य करणात् । १४ । षष्ठास्थानेऽपि चतुर्थ्या व्याख्यानात् । १५ । अकारप्र
लेषात् । १६। एवमन्येभ्योऽपि 'प्राकृतं बहुल' मितिवचनाल्लब्धेभ्यः पूर्वविद्वज्जनप्रतिपादितेभ्योऽविशेषलक्षणेभ्यः सूत्रे साक्षादनभिहितापि विवक्षितार्थसङ्गतिर्विधेयेति । तथा श्रीमदुत्तराध्ययनबृहद्वृत्तावप्युक्तं'कचित् सौच्या शैल्या कचिदधिकृतप्राकृतवशात् , कचिचार्थापत्त्या कचिदपि समारोपविधिना । कचिचाध्याहारात् कचिदविकलप्रक्रमबला-दियं व्याख्या ज्ञेया क्वचिदपि तथाऽऽम्नायवशत' ॥१॥ इति ।
अथ ग्रन्थकृत् प्रतिज्ञातनिर्वाहणाय सकलप्रन्थवक्तव्यार्थसमहपरां द्वारगाथामाह
आलोअण दिज्ज कया कस्स कहं केण क इह दोसगुणा ।
दाणादाणे वा कि आलोअणि पछित्त-फलं ॥२॥
व्याख्या-आलोचनादीनि द्वादश द्वाराणि भवन्तीति क्रियासम्बन्धः । 'आलोअण 'त्ति । पूर्वमालोचना-स्वापराधप्रकाशनरूपा येन विधिना विधीयते, यथा च सम्यगनालोचकस्य सशल्यत्वेन म शुद्धिः तद्विपरीतस्य च शुद्धिस्तद्वक्तव्यम् । १ । तथा कदा-कस्मिन् कियति वो काले आलोचना दद्यात् । २ । तथा कस्य-कीदृशस्य गुरोः पार्वे । ३ । तथा कथं-केन प्रकारेण, ऋजुत्वादिना । ४ । तथा केन-कीदृशेन शिष्येणालोचना प्रदातव्येति च वाच्यम् । ५ । तथा के इहालोचनायर्या दोषाः । ६ । के गुणा इति चाभिधातव्यम् । ७ । तथाऽगीतार्थस्य पार्वे आलोचनाया दाने ये दोषा भवन्ति ते वक्ष्यन्ते । ८ । तथा गीतार्थस्यापि पुरतो लज्जादिभिः सम्यगालोचनाया अदाने ये दोषोः सम्यग् दाने च ये गुणास्ते अभिधास्यन्ते । ९ । किं वाऽऽलोचनीयं-मूलोत्तरगुणादिविषयमपराधजातमिति वाच्यम् ।१०। तथा प्रायश्चित्तमतिचारानुरूपं तपःप्रदानम् । 'पछित्त 'त्ति प्राकृतत्वात् इष्टरूपसिद्धिः । ११ । फलं-सम्यगालोचितातिचारानुरूपप्रायश्चित्तप्रतिपत्त्यादिना परमार्थप्रसिद्धिरूपं चेति द्वादशं द्वारं वक्तव्यम् । १२ । अयं च द्वारगाथासक्षेपार्थः । विस्तरार्थस्तु यथास्थानमभिधास्यते ॥२॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org