________________
श्राद्धजीतकल्पे तं न खमं खु पमाओ मुहुत्तमवि चिट्ठिउ ससल्लेणं ।
आयरिअपायमूले गंतूण समुद्धरे सल्लं ॥५॥
व्याख्या- 'तं 'ति । तस्माद्धेतोर्न क्षम-न युज्यते ‘पमाओ'ति । दकारलोपात् प्रमोदतःप्रमत्ततावशात् न तु तादृग्गुर्वप्राप्त्यादिना, मुहूर्तमपि-क्षणमपि स्थातुं सशल्येन-अनालोचितातिचारपदेन किन्तु तत्कालमेवाचार्यपादमूले गत्वा समुद्धरेत्-स्वमनःकोटरात् कर्षयेत् प्रकाशयेदित्यर्थः। किमित्याहशल्यं-प्रबलरागद्वेषादिकृतं स्वकर्म, निःशल्यो भवेदिति भावः । १ ।
अथ कदा दद्याद् ? इति द्वितीयद्वारमाह
पक्खिय चाउम्मासे वरिसे वुक्कोसओ अ बारसहिं ।
निअमा आलोइज्जा गीआइगुणस्स भणि च ॥६॥
व्याख्या-पाक्षिके चतुर्मासके वार्षिके वा पर्वणि तावद्यावदुत्कर्षतो द्वादशमिवर्षे, निश्चयेनाऽऽलोचयेत् गीतादिगुणयुक्तस्य सूत्रार्थवेत्तृत्वादिगुणगणगरिष्ठस्य साधोविशेषणाद् गुरोः पार्श्व इति गाथाक्षरगमनिका ।
अयमत्र भावः-'गीअत्थो कडजोगी' इत्यादिगाथावक्ष्यमाणासाधारणगीतार्थादिगुणयुक्तगुरुसामप्रयां पाक्षिके आलोचयेत् । तत्र गुरुसामप्रथभाषादिना केनचित् कारणेनाऽऽलोचनाया अप्रदाने चतुर्मासके, तत्राऽपि तददाने वार्षिके वा पर्वणि आलोचनीयम् । एवं तावयावदुत्कर्षतो द्वादशमिर्वर्षेः-उत्कर्षतो द्वादश वर्षाणि प्रतीक्ष्य गीतार्थगुरोः पुरत आलोचनीयं, न पुनर्गीतार्थादिगुणरहितस्य पार्थे आलोचनादानं युक्तम् । तत्र प्रत्युतापायसम्भवात् बहुनापि कालेन बहुतरक्षेत्रगमनेनापि च सद्गुणगुरोः समीप एवाऽऽलोचनादानस्याऽनुज्ञातत्वात् । भणितं चैतदर्थप्रकाशनसूत्रे ॥ ६ ॥
किं भणितम् १ इत्याह
सल्लुद्धरणनिमित्तं खितमि य सत्त जोयणसयाई ।
काले वारस वरिसा गीअत्थगवेसणं कुज्जा ॥७॥
व्याख्या-शल्योद्धरणनिमित्तं-पूर्वोक्तस्वरूपस्य शल्यस्य प्रकाशनाय, क्षेत्रे इत्यत्र पञ्चम्यर्थे मप्तमी । ततः क्षेत्रत:-क्षेत्रमाश्रित्य सप्त योजनशतानि । कोले इत्यत्रापि सप्तम्याः पञ्चम्यर्थव्याख्यानात् कालतः-कालमाश्रित्य द्वादश वर्षाणि गीतार्थस्य-छेदग्रन्थसूत्रार्थामिज्ञस्य, उपलक्षणत्वात् संविग्नादिगुणस्य गुरोर्गवेषणम्-अन्वेषणं कुर्यात् इति गाथार्थः ।
__ भावार्थस्त्वयं-सम्यगात्मनः शुद्धिं कर्तुकामेन गीतार्थादिगुणोपेतस्यैव गुरोरालोचना प्रदातव्या । तादृशश्चेद् गुरुस्तत्र क्षेत्रे प्रत्यासन्नक्षेत्रे वा नाप्यते तदा तादृग्गुरुनिमित्तं दूरं दूरतरं वा तावद् गन्तव्यं यावत् सप्त योजनशतानि । तथा पाक्षिके चतुर्मासके वार्षिकेऽपि यदि तादृशो गुरुर्न प्राप्यते तदा तावत्कालं प्रतीक्षणीयं यावता सद्गुरोरवाप्तिः म्यादुत्कर्षतो द्वादशाऽपि वर्षाणि प्रतीक्षेत । न च तथाs. प्यगीतार्थस्यान्तिके आलोचनां दद्यात् कस्यचनापि गुणस्याभावात् प्रत्युतानर्थसम्भवात् । यदुक्तम्
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org